षष्टितमः सर्गः
[ कौसल्यासमाश्वासनम् ]
ततो [१] भूतोपसृष्टेव वेपमाना पुनः पुनः ।
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ १ ॥
अथ भर्तुर्दुर्दशापत्तिभीतायाः कौसल्यायाः सुमन्त्रेणाश्वासनम् । तत इत्यादि । गतसत्त्वेव-गतप्राणेव । 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' ॥ १ ॥
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २ ॥
निवर्तय रथं शीघ्रं दण्डकान् नय मामपि ।
अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम् [२] ।॥ ३ ॥
बाष्पवेगोपहतया स वाचा सज्जमानया |
इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ ४ ॥
त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा ।
व्यवधूय च सन्तापं वने [३]वसति राघवः ॥ ५ ॥
लक्ष्मणश्चापि [४]रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः || ६ ||
रामस्य पादौ आराधयति । किमर्थम् ? परलोकमुद्दिश्य ॥ ६ ॥