पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

492 सीताइनसूया संवाद: [अयोध्याकाण्ड: अनु प्रियामिति । अनु - अनन्तरं प्रियो काञ्चित्कथां व्याजीकृत्य वचनं प्रष्टुरारेमे ॥ २३ ॥ 1 स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । राघवेणंति मे, सीते! कथा श्रुतिमुपागता ॥ २४ ॥ अनेन राघवेण । मे श्रुर्ते – मम श्रोत्रपथम् ॥ २४ ॥ तां कथां श्रोतुमिच्छामि विस्तरेण च, मैथिलि ! यथाभूतं च कात्स्ये॑न तन्मे त्वं वक्तुमर्हति ।। २५ ।। एवमुक्ता तु सा सीता तापसी धर्मचारिणीम् । श्रूयतामिति चोक्ता वै कथयामास तो कथाम् ॥ २६ ॥ मिथिलाधिपतिर्वीरः जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतः न्यायतः शास्ति मेदिनीम् ॥ २७ ॥ तस्य लाङ्गलहस्तस्य कृपतः क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्या जगतीं नृपतेः सुता ॥ २८ ॥ लाङ्गलहस्तस्य क्षेत्रमण्डलं कृषत इति । षड्गवेन कृषति ' इति श्रुतेः अग्निवयनार्थमिति शेषः; भावलक्षणे षष्ठी, कृषति सतीत्यर्थः । तस्य पुरः जगती-भुवम् ॥ २८ ॥ 16 समां दृष्ट्वा नरपतिः * मुष्टिविक्षेपतत्परः । पांसुकुण्ठित सर्वाङ्गी विस्मितो जनकोऽभवत् ॥ २९ ॥

  • मुष्टिविक्षेपतरः –'या जाता ओषधयः इति चतुर्दशभिः ओषधीर्वपति '

इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्परः - गो. यशस्विनी-ङ. 2 • यथाऽनुभूतं- ङ. क्षत्र कर्मण्यमिरतःच. 'कर्षत:- ङ.