पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

484 अन्याश्रमगमनम् शिथिलां * वलितां वृद्धां जरापाण्डर मूर्धजाम् । 1: 3 सततं वेपमानाङ्गीं प्रवाते कदलीं यथा ।। १८ ।। 2 तां तु सीता महाभागां अनसूयां पतिव्रताम् । अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।। १९ ।। शेथिलां शिथिलसन्धिबन्धां वलितां - - सञ्जातवलीमती वृद्धां - इदं सर्वोपपादकं विशेषणम्; सततं वेपमानाङ्गी, अत एव प्रवाते कदली यथा-इव स्थिताम् । अग्रा- अव्याक्षरा। स्वनाम समुदाहरदिति । अभिवादनाङ्गत्वेनेति शेषः ।। १८-१९ ।। [अयोध्याकाण्ड: अभिवाद्य च वैदेही तापसी तां दमान्विताम् । बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् || २० || ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् । सान्त्वयन्त्यब्रवीत् 'हृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २१ ॥ तां सीतां धर्मचारिणी दृष्ट हृष्टा । दिष्ट्या - दैवयोगेन ॥ त्यक्ता ज्ञातिजनं, सी ! मानवृद्धिं च, मानिनि ! + अवरुद्धं वन रामं दिष्ट्या त्वमनुगच्छमि ॥ २२ ॥ मानेति । राजसुता राजपली चाहं तापसीवद्वनं कथं गच्छेयमिति प्रवृद्धाभिमानं हित्वेत्यर्थः ॥ २२ ॥

  • बलिता:-वलयः वार्धक्य निबन्धनत्व ग्वै रूप्यजन्या:-

सञ्चासवलयाम् । अवरुद्धं - चतुर्दशवर्षाणि प्राप्तनिर्बन्धवनवासम् । - इव- स्व. 4 वृद्धा-च. +बने 3 ततः सीता महाभागा दृष्ड्डा तां धर्मचारिणीम्-ड. स्वं नाम-ङ.