पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ सर्ग:] खरेज पीडनं स्वेषां रामाय मुनयोऽब्रुवन् अथर्षिर्जरयावृद्धः * तपसा च जरां गतः । वेपमान इवोवाच रामं भूतदया परः ।। ८ ।। तपसा चेति । वृद्ध इत्यनुकर्षः ॥ ८ ॥ 1 कुतः कल्याण सच्चायाः कल्याणाभिरतेः सदा । ' स्खलनं, तात ! वैदेह्याः तपस्विषु विशेषतः ॥ ९ ॥ + त्वन्निमित्तमिदं तावत् तापसान् प्रतिवर्तते । रक्षोभ्यस्तेन संविनाः कथयन्ति मिथः कथाः ।। १० ।। त्वन्निमित्तं रक्षोभ्यो भयमित्यन्वयः ॥ १० ॥ रावणावरजः कश्चित् खरो नामेह राक्षसः । + उत्पाठ्य तापसान् सर्वान् जनस्थाननिवासिनः ।। ११ ॥ घृष्टश्व $ जितकाशी च नृशंसः पुरुपादकः । अवलिप्तश्च पापश्च त्वां च, तात ! न मृष्यते ।। १२ ।। किं तद्रक्षः ? कुतश्च मन्निमित्तं ततो भयम् ? इत्यतः तत् प्रतिपादयति - रावणावरज इत्यादि । जितकाशी - जितमयः । मृष्यते-पीडयितुमिच्छ- - तापसान् उत्पाट्य – पीडयित्वा त्वां च न तीत्यर्थः ।। ११-१२ ।। 475 तपसा च जरां गतः - तपसाऽपि वृद्ध इति वा अर्थः । स्वन्निमित्तं त्वत्तो हेतोः रक्षोभ्यः समागतं इदं – वक्ष्यमाणं उपद्रवजातं तापसान् प्रति वर्तते - गो. + उत्पाठ्य - उत्खाय, निष्कास्येति यावत्- गो. इति जितकाशी । यद्वा-जिनाइव:, 'जितकाशी § जितेन- नयेन काशते - प्रकाशत जिताइवः ' इति हलायुषः- गो.

  • तात- ङ.

परम्-च 2 वृत्तायाः-ड.. ' चलनं-च. 3