पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

458 भरतप्रत्यागमनम् एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः । भरद्वाज: 'शुभतरं मुनिर्वाक्यमुदाहरत् ।। १५ ।। नैतच्चित्रं, 2 नरव्याघ्र ! शीलवृत्तविदां वरे ।

'यदायें त्वयि तिष्ठेत्तु ' निम्ने वृष्टमिवोदकम् ॥ १६ ॥ नैतदित्ये तच्छाब्दार्थः – यदार्यमित्यादि । आर्य - शोभन - चरित्रम् । आर्यं त्वयि तिष्ठदिति यत् तदेतत्तु वृष्टमुदकं निम्न इव न चित्रमित्यन्वयः ।। १६ ॥ इति । 5 + अनृणः स महाबाहुः पिता दशरथस्तव | यस्य त्वमीदृशः पुत्रः धर्मात्मा धर्मवत्सलः ।। १७ ।। तमृषिं तु 'महात्मानं उक्तवाक्यं कृताञ्जलिः । + आमन्त्रयितुमारेभे चरणःवुपगृह्य च ॥ १८ ॥ उक्तवाक्यमिति । उक्तरीत्येति शेषः । आमन्त्रयितुमारे आमन्त्रणं कृतवानित्यर्थः ॥ १८ ॥ [अयोध्याकाण्ड: ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः । भरतस्तु ययौ श्रीमान् अयोध्यां सह मन्त्रिभिः ॥ १९ ॥

  • आर्य – ज्येष्ठानुवर्तनरूपं श्रेयः- गो. 'प्रजामनु प्रजायसे । तषु ते

मस्यामृतम्' इति श्रुत्युक्तरीत्या सत्पुत्रलाभात् मृतोऽपि दशरथ: 'अमृतः' (पाठ न्तरं) इत्याह - गो. + आमन्त्रयितुमारेमे – विनयेन आमन्त्रणोयुक्त इव स्थित इत्यर्थ:- गो. § अत्र पुनः पुनरित्यनेन एकं प्रदक्षिणं न कार्यमित्युक्तम् । प्रदक्षिणविशेषणेन प्रणामस्तु सकृदेवेत्युक्तं भवतीत्याचार्या: । केचित्तु एकहस्तप्रणामैकप्रदक्षिणयोरिव एक प्रणामस्यापि निषिद्धत्वात् पुनः पुनरितिविशेषणस्य अत्र आर्थिक वा पूर्वश्लोकोक्ताभिवादनबललब्धे वा प्रणामेऽप्यन्वयेन न कोऽपि विरोध इत्याहुः-गो. 1 तु मरतं- ङ. 2 नरव्याघ्रे-च. 5 धर्मशो- ङ. अमृत. - ङ. 3 निम्ने सुट-ङ. निनोत्सृष्ट-च. 6 महाप्राज्ञं-च.