पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्येमार्ग भरद्वाजं आमन्य स पुरी ययौ एवमुक्तो महाप्राज्ञः वसिष्ठः प्रत्युवाच ह । वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ ११ ॥ एवमुक्त इति । रामेणेति शेषः ।। ११ ।। ११३ सर्ग:]

  • एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।

अयोध्यायां, महाप्राज्ञ ! योगक्षेम 'करो भव ॥ १२ ।। 457 प्रयच्छेति । प्रतिनिधित्वेनेति शेषः । भवेति । एतत्प्रति- निधिद्वारेति शेषः ॥ १२ ।। एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः । पादुके 'हेमविकृते मम राज्याय ते ददौ ॥ १३ ॥ रेना विचित्रतया कृने तथा । ते इति स्त्रीलिङ्गद्वतीया- द्विवचनान्तम् । मम राज्यायेति । राज्यरक्षाशक्तयनुग्रहार्थमित्यर्थः ।

निवृत्तोऽहमनुज्ञातः रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ १४ ॥ "हेमभूषिते' इत्यनेन रामाय प्रीत्या समर्पयितुं अमिनवतया निर्माय नगरात् भरतेनानीते इति गम्यते- गो. वने सज्जीकृतायाः दुकाया हेमभूषितत्वं न स्वरसमिति भावः । केचित्तु ' यदि स्वार्थ न शक्ष्यामि विनिवर्तयितुं वनात्' (82-18) इत्यायुक्तया रामपुनरावृत्ति सन्दिहानो मरतः उद्देशपूर्वकमेव हेमभूषिते पादुके सज्जा कृत्याऽऽददौ इत्यप्याहु । परन्तु रामेण वनवासप्रस्थानकाले सहैवानीतश्वमेव स्वरसम्। 'एते प्रयच्छ ' इति च तदैव स्वरसम् " अधिरोहार्य पादाभ्यां ' इति च सभासमक्षं तादात्विकभाव- पूर्वकपाद संयोगप्रदर्शनाय । मुनिवृत्या वनं गच्छत: हेमभूषितपादुकाऽऽनयनं कथमिति चेत्, अङ्गुलीयकवत् (किष्क्रि. 44-12) संभवः द्रष्टव्यः । नगराहानीतस्वराजाई स्वा- दिकमेव वा 'हेमभूषते' इति सूचयति । | मम मयि म्यासत्वेन मह्यम् । करे तव-ड.. 2 अभिस्यैते ङ.