पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११ सर्ग:] सर्वेऽपि मिलितास्तत्र रुमधुर्भरतं ततः रामो वचनमब्रवीदिति । मरतं प्रतीति शेषः । एवमित्यादि । धर्मचक्षुषां-धर्मदर्शिनां सुहृदां एवं-उक्तरूपं युष्मदस्मद्विषयकं - - वचनं निबोध - शृणु । एतदुभयं वद्विषयकं मद्विषयकं च वचनं श्रुत्वा ततः परं कर्तव्यं सम्यक् पश्य – चिन्तय । कर्तव्यं निश्चेतु- मशक्यश्चेत् उच्यते मया । उत्तिष्ठ, मां च स्पृश-म -मद्विषयकप्रत्युप- वेशदोषविमोचन.र्थ मां, अज्ञानतः कृतंप्रत्युपवेशन प्रायश्चित्तं उदकं व स्पृश-शुद्धाचमनं कुर्विति यावत् ॥ २२-२३ ॥ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । भृण्वन्तु मे परिषदः मन्त्रिणः ' श्रेणयस्तथा ॥ २४ ॥ परिषद:-

- सभ्याः ॥ २४ ॥

न याचे पितरं राज्यं * नानुशासामि मातरम् । ' आर्य परमधर्मज्ञं ++ नानुजानामि राघवम् ॥ २५ ॥ न याच इति । नायाचिषमित्यर्थः । अथापि तदर्थप्रवृत्तां मातरमपि नानुशासामि – सर्वत्रात्र शासिरार्षः शब्त्रिकरणः ॥ २५ ॥ 1 445 यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः ।

  1. अहमेव निवत्स्यामि चतुर्दश वने समाः ॥ २६ ॥
  • नानुशासामि-' एवं कुरु' इति नानुशिष्टवान्- गो. ↑ नानुजानामि -

वनवासाय नानुज्ञातवानरमीत्यर्थः - गो. वस्तुतस्तु अनन्तर लोकानुसाराव --'राम- +स्वत्प्रतिनिधितयेति शेषः । वनगमन न सहेयमेव' इत्यर्थः स्वरसः । शृणुयु-च. 2 शंसामि-ङ. 3 एवं च. नामिजानामि ङ.