पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मादपेतं नास्तिषयं कोऽनुमन्येत बुद्धिमान् विषमस्थबुद्धि-दुर्भार्गप्रतिष्ठितबुद्धिं त्वां अगृह्णात् - याजकत्वेन - पर्यगृह्णादिति यत्, तत् पितुः कर्म निन्दामि, अपि चार्यः परिगृहीतवा- निति शोचामीत्यर्थः । विषमस्थबुद्धित्वमेव स्पष्टीक्रियते – बुध्येत्यादि । एवंविषयाऽनया बुध्या चरन्तं लोकनाशाय सञ्चरन्तं उच्यमान विशेषणं त्वां पर्यगृह्णादिति पूर्वेण सम्बन्धः ॥ ३३ ॥ - १०९ सर्ग:] यथा हि चोरः स तथा हि बुद्ध तथागतं नास्तिकमत्र विद्धि । 427 BEIS तस्माद्धि यः शक्यतमः प्रजानां 1 न नास्तिकेनाभिमुखो बुधः स्यात् ॥ ३४ ॥ न्व अथ अतिकोपात् नास्तिकोऽपि बौद्धवद्दण्डार्हो राज्य इत्याह- यथा हत्यादि । यथा हि चोरो दण्ड्यः प्रसिद्धः, बुद्धोऽपि तथा दण्ड्यः प्रसिद्धः । नास्तिकं चार्वाकमपि अत्र – वेदमार्गविषये तथा गतमेव विद्धि, तेनापि वेदप्रामाण्यं न स्वीक्रियते, तथा नास्तिके नापीति । तस्माद्धि- - तत एव हेतोः प्रजानां अनुग्रहाय राज्ञा चोरवदेव दण्डयितुं शक्यतमः, द्विजोऽपीति शेषः । ततश्च 'कथाऽपि खलु पापानां अलमश्रेयसे यतः ' इतिन्यायन बुधः - विद्वान् नास्तिकेना- भिमुखो न स्यात् । एवञ्च दण्डाशक्तैर्ब्राह्मणैः नास्तिकः संभाषणीयो न भवतीत्युक्तं भवति ॥ ३४ ॥

  • यथा हि चोरः प्रजानां बाह्य धनं अपहरति, तथा केवलबुद्धिवादरतोऽपि

जनानां उत्तमसंस्कारादिरूपं आन्तरं धनं अपहरति । शून्यवादी यावच्छक्ति दूरतः परिहरणीय इत्यर्थः । स्पष्टीभविष्यति । स-ङ, अतः तादृश: बुद्धिवादरत: अधिकं रामायणभूमिकाय