पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

426 जाबालिवचननिराकरणम् [अयोध्याकाण्ड: सत्यं च धर्म च पराक्रमं च भूतानुकम्पां प्रियवादितां च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुत्रिदिवस्य सन्तः ॥ ३१ ॥ | सन्तं आहुरिति । विशिष्य क्षत्रियस्येति द्रष्टव्यम् ॥ ३१ ॥ ISTOR

  • तेनैव माज्ञाय यथावदर्थ

एकोदयं संप्रतिपद्य विप्राः । धर्म चरन्तः सकलं यथावत् तेनेत्यादि । काङ्क्षन्ति लोकागममप्रमत्ताः ॥ ३२॥ एवमुक्तरूपेण तेन पथैव एकोदयं - मुख्यफलं यथावदर्थं – परमार्थं मोक्षरूपं पुरुषार्थं प्राप्यं आज्ञाय - ज्ञात्वा तमेव धर्ममार्ग संप्रतिपद्य - परिगृह्य धर्मं चरन्तः अप्रमत्ता विप्राः सकलं यथावत् – परमार्थं लोकागमं – सालोक्या दिसायुज्यान्ताशेषमुक्ति प्राप्तिं काङ्क्षन्ति ॥ ३२ ॥ - || - निन्दाम्यहं कर्म कृतं पितुस्तत् 1 यत्वामगृह्णात् + 2 विषमस्थबुद्धिम् । बुध्याऽनयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ ३३ ॥ Jap -

  • तेन हेतुना विप्राः एवमर्थ यथावत् आशाय-ज्ञात्वा एकोदयं संप्रतिपद्य-ऐक-

कण्ठ्यं प्राप्त सकल धर्म - स्वस्ववर्णाश्रमोचितधर्म अप्रमत्ता: - सावधाना: यथावत् चरन्त:- अनुतिष्ठन्त: लोकागमं – स्वर्गादिलोकप्राप्ति काढङ्क्षन्ति-गो. + विषमस्थ- बुद्धि - अवैदिकमार्गनिष्णातबुद्धिं.. ..... निन्दामि – वैदिक कर्मभ्यो बहिष्करोमि-गो. वस्तुतस्तु — भवान्नात्र निन्द्यः, भवन्तं मन्त्रित्वे पुरोहितत्वे चागृह्णात् खलु दशरथः, तत्कर्मैव निन्यं इति नमक्तिरियम् । 1 यस्स्वा-छु. 2 विषय- ङ.