पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जाबालिवचनम् nap [[अयोध्याकाण्ड: पित्र्यं राज्यं परित्यज्य स नार्हति, नरोत्तम ! आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ ७ ॥ हे नरोत्तम ! पित्र्यं राज्यं परित्यज्य भवान् बहुकण्टकं कापथं वनमार्गमास्थातुं नाईति ॥ ७ ॥ 412 समृद्धायामयोध्यायां आत्मानमभिषेचय | एकवेणीधरा हि त्वां नगरी संप्रतीक्षते ॥ ८ ॥ एकवेणीधरात्वं विरहिणीलक्षणं अयोध्यायाः स्त्रीसमाधिना वर्णितम् ॥ ८ ॥ राजभोगाननुभवन् महार्हान्, पार्थिवात्मज ! विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ ९ ॥ न ते कश्चिद्दशरथः त्वं च तस्य न कञ्चन । अन्यो राजा त्वमन्यः सः तस्मात् कुरु यदुच्यते ॥१०॥ उक्तं पितापुत्रासम्बन्धमुपसंहरति - न ते कश्चिदित्यादि । यदेवं - अन्यो राजा, त्वमन्यः, तस्मान्मयोच्यते – मिथ्यापितृवचनाभिनिवेशं मुक्ता राज्यं कुर्विति. - तत् कुरु ॥ १० ॥ 2

  • बीजमात्रं पिता जन्तोः' शुक्लं रुधिरमेव च ।

संयुक्तमृतुमन्मात्रा पुरषस्येह जन्म तत् ॥ ११ ॥

  • पिता जन्तोः बीजमात्रं--

अल्पकारणम् । प्रधानकारणं तु ऋतुमन्मात्रा संयुक्तं धृतं शुक्कं रुधिरमेव च-शुक्कुशोणितमेव, तत् शुक्कुशोणितं पुरुषस्य जन्मकारणम्- गो. अत्र बीजमात्रं पिता इतिवत् 'क्षेत्रमात्रं माता बन्नुसामान्यामावस्यैव विवक्षितत्वात् । ? इत्यप्यूपम् । त्वमप्यन्य:- ङ. 2 शुक्रं शोणितमेव च-च.