पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतप्रार्थना [अयोध्याकाण्ड: अथ मरतेन पुनः क्षत्रधर्मावष्टम्भेन रामप्रत्यावृत्तिप्रार्थनम् । एवमुक्तेत्यादि । चित्रमिति | उक्तियुक्तिविशेषोपपन्नत्वात् विस्मयावहं लोकस्येत्यर्थः ॥ १ ॥ 396 को हि स्यादीदृशो लोके यादृशस्त्वं, अरिन्दम ! ॥ २ ॥ को हि स्यात् –न कोडपीत्यर्थः । यादृशः - यादृशमहिमा | न त्वां प्रव्यथये दुःखं प्रीतिर्वा न प्रहर्पयेत् ।

  • सम्मतश्चापि वृद्धानां तांश्च पृच्छसि संशयान् ॥ ३ ॥

सम्मतश्चापि — धर्मविषये रामवदेव वर्तितव्यमिति दृष्टान्त- भूतोऽपीत्यर्थः । तानू - वृद्धान् । संशयान्– संशयास्पदधर्मान् । सर्वज्ञोऽपि लोकमर्यादामनुसरन्निति शेषः ॥ ३ ॥ यथा मृतस्तथा जीवन् यथाऽसति तथा सति । यस्यैप बुद्धिलाभः स्यात् परितप्येत केन सः ॥ ४ ॥ 1

  • ये वृद्धाः स्वां विषयज्ञं मन्यन्ते, तानपि त्वं संशयान् पृच्छसि, कोहि स्यादीदृशो

लोके । पितृवियोगादिजनितदुःखेन मया कथिन मिति हि भवतोक्तं, मम तादृश्दुःखमन एव नास्तीत्याइ – यथा मृत इति । मृतः पुरुषो यथा द्वेषविषयो न भवति, जीवन्नपि तथा । यथा असति — अधिनाने वस्तुनि यथा रागो नास्ति विद्यमाने वस्तुन्यपि तथा । इत्येष: बुद्धिलाभो यस्य स केन हेतुना परितप्येत--न केनापीत्यर्थः । भवदुक्तप्रकारेण मम दुःखलेशोऽपि नास्वति भाव:- गो. अस्य 'यथा जीवंस्तथा मृतः ' इति वाक्यशेष आर्थिः । यथा मृतः....त्यक्तदेह: आस्मा देहपुत्रादिभिरसंबद्ध:, तथा जीवन्नपि तैरसम्बद्धः, नित्यशुचिसुखचिदात्मनः नित्याशुचिदु:खजडेन देहेन सदीयैश्वासम्बन्धात् । यथा च जीवन् स्वकर्मानुरूप संसरति, तथा मृतोऽपि स्वकर्मा- नुरूपं परत्र । किश्च यथा जीवन् सवै: संबद्धः, तथा मृतोऽपि, सर्वात्मत्वादस्य । किश्च यथा असति - अविद्यमाने न रागो जायते, तथा सति विद्यमानेऽपि रागो न युक्त: । यथा वा सति - साधौ द्वेषो न युक्तः, तथा असति – असाधावपि द्वेषो न किञ्च यथाऽसति-प्रपञ्चेऽनुरागः, तथा सति- ब्रह्मणि युक्तः । किश्व सति- माणितन्निष्ठस्य यथा न बन्धः, मुक्तिश्च भवति, तथा लोकसंग्रहार्थमसन्निष्ठस्यापि न बन्धः, मुक्तिश्च भवति-ति. जननमरणयोः, लाभालाभयोर्वा यस्य मतिः समा वर्तते, तस्य लोके न काऽपि परितापप्रसक्तिः इति मूलस्याशयः ॥