पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमुक्तोऽपि भरत: पुन: प्राइ रचूखमम् "आत्मानमनुतिष्ठ त्वं स्वभावेन, नरर्षभ ! निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥ ४१ ॥ आत्मानमित्यादि । नः पितुः वृत्तं शुभं निशाम्य–पर्या- लोच्य, पिता नः परमां गतिं गत इति च पर्यालोच्य, त्वं स्वभावेन- प्रागुक्तधार्मिकत्वादिलक्षणनृपस्वभावेन उपलक्षितः सन् तब आत्मानं अनुतिष्ठ – अनुचिन्तयत्वदात्मनः परलोकहितं चिन्तयेत्यर्थः ॥ ४१ ॥ १०६ सर्ग:] इत्येवमुक्ता वचनं महात्मा पितुनिंदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वास्मीकीये अयोध्याकाण्डे पञ्चोत्तरशततमः सर्ग: रवि (४२) मानः सर्गः ॥ ४२ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चोत्तर शततमः सर्गः षडुत्तरशततमः सर्गः [भरतप्रार्थना ] + एवमुक्ता तु ' विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ॥ १ ॥ उवाच भरतश्चित्रं + धार्मिको धार्मिकं वचः । 395

  • स्वभावेनात्मानं अनुतिष्ठ- राजभावेन भवन्तं योजय-गो. आत्मानं

आत्मन: परलोकहितं अनुतिष्ठ- चिन्तयति. सर्गभेद दृश्यते । + अस्मिन् सर्गे श्लोकव्यत्यासः युद्ध क्रमेण व्याक्रियते - गो. निरुत्तर मुक्तवन्तं रामं प्रति मुखान्तरेणोत्तरस्योच्यमानत्वात् चित्रमित्युक्तम् - गो. विरतो रामो-ङ,