पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामभरत संवादः [अयोध्याकाण्डः 1 पूर्वगतिसमान गतित्वे दृष्टान्तः - यथा हीत्यादि । सार्थ:- वणिक्समूहः । गच्छन्तमिति । पुरतो गच्छन्तमित्यर्थः । उक्ताया लोकस्थितेः प्रकृतोपयोगदर्शनं – एवमित्यादि । पितृपैतामहैः, वृद्धिः छान्दसी, पितृपितामहैरित्यर्थः । ध्रुवः – अवश्यंभावी । तं अवश्यप्राप्यं मार्ग, यस्य – यन्मार्गगमनस्य व्यतिक्रमः लङ्घनं कस्यापि नास्ति, स्वयमपि तन्मार्गमापन्नः – कथं पूर्व गतं प्रति शोचेत् ? अतः पितृशोको निष्प्रयोजनः ॥ २९-३० ।। - 392 'वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः । - आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ।। अनुष्ठेयं त्वेतावादित्याह – वयस इत्यादि । स्रोतसो वा- गङ्गादिप्रवाहस्येव अनिवर्तिनः - प्रत्यावृत्तिरहितस्य गच्छतः वयसः मध्ये आत्मा सुखे--तत्साघने च नियोक्तव्यः । अतः सुखभाजः - सुख तत्साधनाप्ति निमित्त जन्मभाजः स्मृताः ॥ ३१ ॥ - पतमानस्य - 2 धर्मात्मा स शुभैः कृत्स्त्रैः क्रतुभिश्चाप्तदक्षिणैः । [ धूतपापो गतः स्वर्ग पिता नः पृथिवीपतिः । भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।। - शेषः ।

  • सप्तम्यर्थे षष्टी । वाशब्द श्वार्थ: । अनिवर्तिनि स्रोतसीव वयसि पतमाने-

अनिवर्तितया गच्छति सति आत्मा सुखे - सुखहेतौ धर्मे नियोक्तव्यः, परलोकचिन्तयेति यतः प्रजाः सुखभाज: धर्मसाध्यसुखासक्ताः स्मृताः- गो. पतमानस्य— गच्छन: वयसः, नाशं दृष्टेति शेषः - ति. वयस इति अनादरे वा षष्ठी । सांसारिकं परिणामं अलक्षीकृत्य उत्तरभाविनिरतिशयसुखरूपपरमपुरुषायें आत्मा नियोक्तव्यः- यथा मुक्तः स्यात् तथा प्रयतितव्यम् । यतः प्रजानां जनिरेव तदर्था इति वा अर्थ: । + धर्मात्मा स्वर्गत: स नः पिता न शोच्य इत्यन्वयः । ' सव:, कृत्यैः-ड 2 कुण्डलीकृत: पाठ: गोविन्दराजसम्मतः ।