पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

374 निवापनिर्वर्तनम् इयैरन्ये गजैरन्ये रथैरन्ये खलङ्कृतैः ।

  • सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ।। ३७ ॥

+ अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्टुकामो जनः सर्वः जगाम सहसाऽऽश्रमम् ॥ ३८ ॥ + आतॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम् । ययुर्वसुविधै र्यानैः खुरनेमि समाकुलैः ।। ३९ ।। खुरसमाकुलयानानि अश्वादीनि, नेमिसमाकुलयानानि रथ- शकटयः || ३९ ।। [भयोध्याकाण्ड: सा भूमिर्चहुभिर्यानः 'खुरनेमिसमाहता। "मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। ४० ।। समाहता-अभिहता-आक्रान्तेति यावत् ॥ ४० ॥ तेन वित्रासिता नागाः करेणुपरिवारिताः । $ आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ ४१ ॥ गन्धेनावासयन्त्यः - मदगन्धेन दिखान् सुरभीकुर्वन्तः ॥ वराह' वृकसङ्घात्र महिपा: 'सृमरास्तथा । व्याघ्रगोकर्णगवयाः वित्रेसुः पृपतैस्सह ॥ ४२ ॥ गोकर्णः - सुमरः-IN - गवयः - LOOD ।। ४२ ॥ 'सुकुमारा इति इयैरित्लादिभिक्तानां त्रयाणां विशेषणम् । सुकुमारत्वाभावे दुःखितं रामं प्रति पयामेन गन्तव्यम्बाद-गो. अथवा - हयैः गजैरित्यादिना योगा अभिहिता: । तद्भिशा: सामान्यप्रजाः 'सुकुमारा नराः' इत्युच्यन्ते।+ अचिरप्रोषितमपीति भाव: । ॐआतॄणां समागममित्यन्वयः । § गन्भेन-मदगन्धेन बनमावासयन्त इत्यर्थः । युक्तै:- स्वनाकुलै:- रम-च. 'मृगसिंहाथ-च. ' सर्पवानराः- रू. 5 1-154