पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

370 निवापनिर्वतनम् 2618 [अयोध्याकाण्ड: पुरा प्रेक्ष्य * सुवृत्तं मां पिता यान्याह सान्त्वयन् । !! > वाक्यानि तानि श्रोष्यामि कुतः ' कर्णसुखान्यहम् ॥ १३॥ एवमुक्ता स भरतं भार्यामभ्येत्य राघवः । उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ।। १४ ।। सीते! मृतस्ते श्वशुरः, पित्रा हीनोऽसि, लक्ष्मण ! + भरतो दुःखमाचष्टे 'स्वर्गतं पृथिवीपतिम् ॥ १५ ॥ दुःखं यथा तथा आचष्टे ।। १५ ।। 8 ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । • तथा ब्रुवति काकुत्स्ये कुमाराणां यशस्विनाम् ॥ १६ ॥ ततस्ते भ्रातरस्सर्वे भृशमाश्वास्य ' राघवम् । |अब्रुवन् जगतीभर्तुः क्रियतामुदकं पितुः ।। १७ ।। सा सीता ईश्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामथुपूर्णाभ्यां अशकन्नश्चितुं पतिम् ॥ १८ ॥ सान्त्वयित्वा तु तां रामः रुदन्तीं जनकात्मजाम् । ॥ ६१ उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ।। १९ ।। आनयेहुदिपिण्याकं || चीरमाहर चोत्तरम् | जलक्रियार्थ तातस्य गमिष्यामि महात्मनः ॥ २० ॥ ॥

  • सुवृसं– शोभनं नियोगाचरणरूपं वृतं यस्य तम्- गो. दु:खमाचष्टे,

स्वगतं पृथिवीपतिमाचष्टे - इति दुःखाक्याहुक्ति। एतदनन्तरं इतिकरणमूडाम् । § श्वशुरं नृपं स्वर्गलोकगतं श्रुस्वेत्यन्वयः । ॥ चीरै-वासः, उदकदानार्थ, उत्तरं उत्तरीयं च गो. 2 एमर्गतिं पृमिनीपतेः-ख. दुःकतम-ख. 'रुदतीच.