पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

314 रामाश्रमदर्शनम् निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् । भरतो भ्रातरं वाक्यं शत्रुघ्न मिदमब्रवीत् || २ || यथोद्देशं - शिबिरसन्निवेशे अमुकस्य अमुकदिग्भाग इति - खाम्युद्दिष्टप्रदेशमनतिक्रम्थेत्यर्थः । विनीतवत् --विनीतः सन् ॥ २ ॥ क्षिप्रं वनमिदं, सौम्य ! नरसङ्घैः समन्ततः । लुब्धैश्च सहितैरेभिः त्वमन्वेपितुमर्हसि ॥ ३ ॥ [[अयोध्याकाण्ड: लुब्धाः - निषादाः । एभिरिति । गुहभृत्यैः आसन्नैः सहेत्यर्थः ॥ - गुहो ज्ञातिसहस्रेण शरचापासि 'धारिणा । 2 समन्वेषतु ' काकुत्स्थौ अस्मिन् परिवृतः स्वयम् ॥ ४ ॥ ज्ञातिसहस्रेण परिवृत इत्यन्वयः ॥ ४ ॥ अमात्यैः सह पौरैथ गुरुभिश्च द्विजातिभिः । वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥ ५ ॥ पौरैः-पुरप्रधान कुटुम्बिभिरित्यर्थः । चरिष्यामि, अहमपीति शेषः॥ 3 यावन्न रामं ' द्रक्ष्यामि लक्ष्मणं वा महाबलम् । वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ ६ ॥ यावत्र चन्द्रसङ्काशं द्रक्ष्यामि च शुभाननम् । भ्रातुः ‘‘पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ ७ ॥ शुभाननमिति कर्मधारयः ॥ ७ ॥

  • 5

यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा ' धारयिष्यामि न मे शान्तिर्भविष्यति ॥ ८ ॥

  • पचपलाशाक्ष-- पद्मदलाक्षम्, आनन विशेषणमिदम् ।

3 पश्यामि- ङ. पाणिना-च. 2 काकुत्स्थं-ङ. 6 प्रग्रहीष्यामि च पद्मविशालाक्षं-च. शुभमाननम्-ङ 07:34