पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ सर्गः ] निवेश्य भरतः सेनां पद्धयां तत् प्राविशत् बनम्

'सा चित्रकूट' भरतेन सेना धर्म पुरस्कृत्य विधूय दर्पम् । प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ ३१ ॥ इत्याषें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तनवतितमः सर्गः प्रणीता – शिक्षितेति यावत् । योग (३१) मानः सर्गः ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तनवतितमः सर्गः 313 अष्टनवतितमः सर्गः [ रामाश्रमदर्शनम् ] निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः । अभिगन्तुं स काकुत्स्थं इयेष | गुरुवर्तकम् ॥ १ ॥ अथ भरतस्य रामाश्रमसमीपगमनम् । पादवतामिति । चरप्राणिनामित्यर्थः । गुरुवर्तकं - मातापित्राचार्य शुश्रूषकम् ॥ १ ॥

  • भरतेन धर्म पुरस्कृत्य - विनीतवेषेण राजाऽभिगन्तव्य इति धर्ममनुसृत्य दर्प

विधूय स्थितेन रघुनन्दनस्य प्रसादनार्थ प्रणीता - आनीता-गो. दर्प विधूय धर्म पुरस्कृत्य प्रसादनार्थ- इति वाऽन्वयः । एतेन भरतविनयातिशय उक्तो भवति । स्वयंप्राप्तराज्य:, राज्यभ्रष्टं भ्रातरं देन्यदयादिमिर्यथोपसपेंत, न तथा भरत: उपससपेंति तात्पर्यम् । अत एवानन्तरसर्गे 'भर्तारं सागरान्तायाः पृथिव्याः' (11) इत्युक्तिरपि । ↑ गुरुवर्तकं—गुरुवचनानुवर्तकम् - गो. अथवा- विभुस्सन्नपि पद्भ्यां अभिगन्तुमियेषेत्यत्र हेतुः— गुरुवर्तकमिति । वर्तकमिति कर्तरि ण्वुल, गुरुरिव वर्तमानमिति यावत् । 1 भरतस्य - ङ. 2 गुरुवर्तकः - ङ.