पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रक्षिप्त: सर्ग:] दमयामास तं काकं वषीकास्त्रेण राघवः तावन्योन्यमशोकस्य पुष्पै: पलवषारिभिः । समलं चक्रतुरु भौ कामिनौ नीललोहितौ ॥ ३० ॥ आबद्धवनमाली तो कृतापीडावतंसकौ । भार्यापती तावचलं शोभयांचक्रतुर्भुशम् ॥ ३१ ॥ एवं स विविधान् देशान् दर्शयित्वा प्रियां प्रियः । आजगामाश्रमपदं सुसंश्लिष्टमलङ्कृतम् ॥ ३२ ॥ प्रत्युज्जगाम तं भ्राता लक्ष्मणो गुरुवत्सलः । दर्शयन् विविधं धर्म सौमित्रिः सुकृतं तदा ॥ ३३ ॥ शुद्धबाणहतांस्तत्र मेध्यान् कृष्णमृगान् दश । राशीकृतान् शुष्यमाणान् अन्यान् कश्चिन कांश्चन । ३४ ।। तदृष्ट्वा कमै सौमित्रे: आता प्रीतोऽभवत्तदा । क्रियन्तां बलयश्चेति राम: सीतामथान्वशात् ॥ ३५ ॥ अग्र प्रदाय भूतेभ्यः सीताइथ वरवर्णिनी । तयोरुपाददत् भ्रात्रो: मधु मांसं च तत् मृशम् ॥ ३६ ॥ तयोस्तुष्टिमथोत्पाद्य वीरयोः कृतशौचयोः । विधिवज्जानकी पश्चात् चक्रे सा प्राणधारणम् ॥ ३७ ॥ शिष्टं मांस निकृष्टं यत् शोषणायावकल्पितम् । तत् रामवचनात् सीता काकेभ्यः पर्यरक्षत ॥ ३८ ॥ तां ददर्श तदा भर्ता काकेनायासितां दृढम् । यस्या हारान्तरचर: कामचारी विहङ्गमः ॥ ३९ ॥ काकेनारोध्यमानां तां सा मुमोह तदातुरम् । सा चुकोपानवद्याङ्गी मर्तृप्रणयदर्पिता ॥ ४० ॥ इतश्वेतश्च तां काको वारयन्तीं पुनःपुनः । पक्षतुण्डनखाग्रैश्च कोपयामास कोपनाम् ॥ ४१ ॥ तस्याः प्रस्फुरमाणौष्टं भ्रुकुटी पुटसूचितम् । मुखमालोक्य काकुत्स्थ: काकं प्रत्यषेधयत् ॥ ४२ ॥ स धृष्टमानो विहगः रामवावधम चिन्तयन् । सीतामभिपपातैव सतश्चक्रोध राघवः ॥ ४३ ॥ सोऽभिमन्त्र्य शरैषीकां ऐषी कात्रेण बीर्यवान् । काकं तमभिसन्याय ससर्ज पुरुषर्षभः ॥ ८४ ॥ 297