पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

280 त्रिचित्रकूागमनम् कुवन्तीत्यादि । दाक्षिणात्याः- दक्षिणदण्डकारण्यभवाः । मेघवदव - मेघप्रकाशैः –अतिनिबिंडोपचित प्रत्यग्रपलाश भूयिष्ठतया भासमानैः फलकैः महास्कन्धशाखिभिरुपलक्षिता अमी वाजिनः- वाज:- फलादि, तदस्त्येषां अस्मिन्निति वा - वृक्षा इति यावत् । वृक्षवर्णनप्रकरणाच्चायमर्थः सिद्धः । अत एते शशिप्रभान् सुरभीन् कुसुमापीडान्- स्तब कशेखरान् कुर्वन्ति-वहन्तीति यावत् । 'आपीड- शेखरोत्तंसाऽवतंशः शिरसि स्रजः ' हरिः । नानाऽन्य इहाइ- तदसङ्गतम् ॥ १३ ॥ अयोध्याकाण्डः

निष्कूजमिव * भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव ' जनाकीर्णा संप्रति प्रतिभाति मा ॥ १४ ॥ निष्कू जं– निश्शब्द इव ॥ १४ ॥ 2 खुरैरुदीरितो रेणुः ' दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिलः शीघ्रं + कुर्वन्निव मम प्रियम् ।। १५ ।। `चित्रकूट देश दर्शन निरोध निवर्तक- मम प्रियं कुर्वन्निवेति । वादित्याशयः ।। १५ ।। + स्वन्दनांस्तुरगोपेतान् मृतमुख्यैरधिष्ठितान् । एतान् संपततः शीघ्रं पश्य, शत्रुघ्न ! कानने ॥ १६ ॥ शीघ्र पतत इति । गच्छत इत्यर्थः । कान नभुवः कठिनत्वादित्याशयः ॥ १६ ॥

पुरा एवंभूतं संप्रति असंख्य योधपूर्णत्वात् जनाकीर्णायोध्येव मा-मां प्रति भाति ॥ + रामाश्रमदर्शन प्रदानादिति भावः - गो. वक्ष्यमाणत्रास हेतुत्वेनाह– स्यन्दना - निति - गो. समाकीर्णा-ड.. 12 खुररुद्दीपितो-ङ. दावं- RE