पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ सर्ग:] विचिन्वंस्ते ततस्तस्मिन् कानने रामलक्ष्मणौ अत एवैते नगाः- वृक्षाः पर्वतसानुषु कुसुमानि मुञ्चन्ति । आतपापाये-- वर्षाकाले घना इव स्थिता नगा इत्यन्वयः ॥ १० ॥ 'किन्नरा'चरितं देशं पश्य, शत्रुघ्न ! पर्वतम् । 'मृगैः समन्तादाकीर्ण मकरैरिव सागरम् ॥ ११ ॥ 3 एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिताः | वायुप्रविद्धाः शरदि मेघ राजिरिवाम्बरे ।। १२ ।। प्रचोदिता इति । सैनिकैरिति शेषः । क्षिप्ताः ॥ १२ ॥ 279 वायुना प्रविद्धा:- --- + कुर्वन्ति कुसुमापीडान् 'वाजिनः सुरभीनमी । मेघप्रकाशैः फलकैः दाक्षिणात्या: 'शशिप्रभान् ॥ १३ ॥ १०॥ ' चरितोद्देशं - ङ. 2 पर्वते-च. ३ हयैः-च. सुरभीनमी- ङ. च. झ. शिरस्सु सुरभीनगा:- उ

  • किन्नराचरितदेशरूपं पर्वतमित्यन्वयः । + दाक्षिणादिग्भवा नराः मेघप्रकाशेः---

कक्षादिनीलचर्मपिनद्धतथा नीलमेघतुल्यैः फलः साधनभूतैः शिरस्सु कुसुमापीडान्- कुसमसमूहान् यथा कुर्वन्ति यथा धारयन्ति, तथैव अमी वृक्षाः कुसुमापीडान्- कुसुम- स्तबकान् शिरस्सु धारयन्ति । दाक्षिणात्या हि फलकान् ऋक्षादि चर्मपिनद्धान् कृत्वा तेषु पुष्पाणि विकीर्य शिरस्सु धारयन्तीति प्रसिद्धिः । यद्वा—–अमी भटाः मेघप्रकाशै: फलकै रुपलक्षिताः सन्तः दाक्षिणात्या नरा इव कुसुमापीडान्– कुसुमशेखरान् शिरस्सु कुन्ति-ती. अमी भटा: मेघप्रकाशै: फलकै:- केशबन्धविशेषैः वनसचारार्थ कल्पितैः उपलक्षिताः सन्त: दाक्षिणात्या यथा नराः दाक्षिणात्या नरा इव शिरस्सु कुसुमापीडान् अत्र कुर्वन्ति । दाक्षिणात्या हि केशानुद्धृत्य बध्वा कुसुमापीडरलकुर्वन्ति-गो. गोविन्दराजयोजना स्वरसा। परन्तु तत्रापि 'अमी- वृक्षा.' इति व्याख्यानं युतम् । भडानां तथा शेखर धारणं तु तद्देशीयानां असंभवि । अत: पुष्पितान् वृक्षान् दृष्यमुक्तिः खात्। भटानां शिरस्सु पतितानि पुष्पाणि वीक्ष्य वा तथोक्ति: स्यात् ।। 4 जाला इवा-च. 5 शिरस्सु ० वथा नरा:- ङ. च. झ.