पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

272 भरद्वाजामन्त्रर्णम्

  • त प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।

अदूरात् भरतस्यैव तस्थौ दीनमनास्तदा ॥ १७ ॥ दीनमना इति । कैकेयीति शेषः ॥ १७ ॥ [अयोध्याकाण्ड: ततः पप्रच्छ भरतं भरद्वाजो + दृढव्रतः । विशेषं ज्ञातुमिच्छामि मातॄणां तव, राघव! ॥ १८ ॥ एवमुक्तस्तु भरतः भरद्वाजैन धार्मिकः । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ।। १९ ।। यामिमां, भगवन् ! दीनां शोकानशनकर्शिताम् । पितुर्हि महिषीं देवीं देवतामिव पश्यसि || २० || एषा तं पुरुषव्याघ्रं 'व्याघ्रविक्रान्तगामिनम् । कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २१ ॥ शोकानशनेति । शोकः, तद्वशप्राप्तं अनशनं – यथोचितयथा- कालान्नस्वीकारामावश्च तथा | यां पश्यसि, एषेति योजना | व्याघ्रस्य विक्रान्तः - गमन, तद्वद्गाभिनं-गमनशीलम् । घातारं - उपेन्द्रम् । घाता – प्रजापतिः, तस्यापरमूर्तित्वात् तद्वाच्य उपेन्द्रः ॥ २०-२१ ॥ - 2 + अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः । कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे || २२ ||

  • लज्जावशादेव कौसल्यादिभिः सह मुनेः पुरतः स्थातुमशक्ता प्रदक्षिणग्याजेन

भरतं गतेल्याह – तमित्यादिना - गो. दृढव्रत इत्यनेन सर्वशत्वं लक्ष्यते । सर्वज्ञोऽपि कैकेयीशिक्षार्थं पप्रच्छेत्यर्थः । विशेष-संशासंज्ञिसम्बन्धादि विशेषम्-गो. 'इयं का, इयं का' इत्येवंरूपं विशेषम्-ती. वामभुजं लिष्टा-कौसल्याया वेपमानाङ्गत्वात् दयाप्रीत्यादितः तां स्पृशन्तीवातिसमीपे तद्धारणार्थं तद्वामभुजमध्यस्थतेत्यर्थ:- गो. वामभागे स्थितामिति वाऽर्थः । 2 एतदनन्तरं - इयं सुमित्रा दुःखार्ता देवी राज्ञश्च सिंह ङ. च. झ. मध्यमा - इत्यधिकं- ङ. च.