पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ सर्ग: ] आपृच्छत् स भरद्वाजं रामं द्रष्टुं कृतत्वर: दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णा वाहिनीं, वाहिनीपते ! ॥ १३ ॥

1 वाहयस्व, महाभाग ! ततो द्रक्ष्यसि राघवम् दक्षिणेनैव मार्गेण - यमुनाया दक्षिणतीरस्थेन मार्गेणैव गत्वा - कियद्दूरं गतः, पश्चात् सव्यदक्षिणमेव च - तस्य मार्गस्य शाखा- मार्गयोः सव्यभागवतो यो दक्षिणदिग्गामी मार्गोऽस्ति तमेव मार्ग वाहिनीं वाहयस्व, न त्वन्यं शाखामार्गम् ॥ १३ ॥

प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः । हित्वा यानानि यानार्हाः + ब्राह्मणं पर्यवारयन् ॥ १४ ।। ब्राह्मणं – ब्रह्मपुत्रं भरद्वाजं पर्यवारयन्, नमस्कारार्थमिति शेषः ॥ १४ ॥ 271 वेपमाना कृशा दीना सह देव्या सुमित्रया | कौसल्या 2 " तत्र जग्राह कराभ्यां चरणौ मुनेः ।। १५ ।। असमृद्धेन कामेन सर्वलोकस्य गर्हिता । 3 कैकेयी ' तस्य जग्राह चरणौ सव्यपत्रपा || १६ ।। असमृद्धेन – यथाऽभिलषितमप्राप्तेन - शेषः ॥ १६ ॥ अस्मादाश्रमात् दक्षिणेन मार्गेण किञ्चिद्दूरं गत्वा तत: सव्यदक्षिण नैर्ऋत- दिग्भागो यथा भवति तथा वाहिनीं वाहयस्व किञ्चिद्दूरं दक्षिण एको मार्गः, तत: शाखामार्गेण नैर्ऋतदिग्भागगामिना गन्तव्यमिति भाव: । कान्तारमार्गस्य सूक्ष्मत्वात् यथायोग्यं मार्गस्य वामतो दक्षिणतश्च विरलप्रदेशे वाहिनीं प्रापयस्वेत्यर्थ इत्यप्याहु: - गो. + इति तत् प्रयाणं श्रुत्वा -- प्रस्थानं अतिसन्निहितं शाल्वेत्यर्थ: ब्राह्मणं--- हाविदम् - गो. 2 तस्य कु. तत्र - ङ. महाबाहो- कु. कामेन, उपलक्षितेति