पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० सर्ग:]]] आगतोऽहमिति प्राह नेतुं रामं प्रसादनेः 245 w ततः नेति आशङ्के - स्वानुभवेन जानामि, अतो हि मामेवं अनुशाघि-अनुगृहाण ।। १५ ।। न चैतदिष्टं माता में यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। १६ ।। कथमनुभवापलापः क्रियते ? इत्यत्राह – न चेत्यादि । मदन्तरे - मदसन्निधौ मे माता यदवोचत् मदभिषेकरामवनवासविषयकं न चैतत् ममेष्टम् । इदमेव वित्रियते - नाहमित्यादि । एतेन- मातृकृतव्यापारेण न च तद्वचनमाददे; इदानीमिति शेषः ।। १६ । - अहं तु तं नरव्याघ्रं उपयातः * प्रसादकः । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ १७॥ भवत्वेवमपारः, अथापीह प्रवृत्तिः किमर्था ? इत्यत्राइ - अहं स्वित्यादि । प्रसादक इति । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ' इति ण्वुल्, प्रीति कारयिष्यन्नित्यर्थः ।। १७ ।। - 1 त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे, 2 भगवन् ! रामः क्व संप्रति महीपतिः १ ॥ क कस्मिन् प्रदेशे || एवंगतं - एवं बुद्धिं प्राप्तवन्तम् । - वसिष्ठादिभिर्ऋत्विग्भिः #याचितो भगवांस्ततः । उवाच तं भरद्वाजः प्रसादात् भरतं वचः ।। १९ ।। etm

प्रति नेतुं, तस्य पादावभिवन्दितुं च उपयात: । प्रसादकः, अयोध्यां ↑ स्वस्य राज्येऽभिलाषा भावं प्रकटयितु - रामं 'महीपतिः' इत्याह भरतः । + याचितः-भरताय प्रसन्नो भवेति प्रार्थित:- गो. तंच. प्रसादकस्मन् उपयातः- प्रसादनार्थमागत इति यावत् । 2 भगवान्- ङ.