पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९ सर्ग:] ग्रहोऽपि सत्वरं नौमिः तान् गङ्गां समतारवत् इति संवदतोरेवं अन्योन्यं नरसिंहयोः । आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ ४ ॥ कचित्सुखं * नदीतीरेऽवात्सीः, काकुत्स्थ ! शर्वरीम् । कच्चित्ते सहसैन्यस्य ' तावत्सर्वमनामयम् ॥ ५ ॥ ' अवात्सीः शर्वरीं' इति अत्यन्तसंयोगे द्वितीया ॥ ५ ॥ गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । ॥ रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ ६॥ रामस्यानुवशः - रामाधीनः ॥ ६ ॥ Pap सुखा नः शर्वरी, राजन्! पूजिताश्चापि ते वयम् । गङ्गां तु नौभिः बह्वीभिः दाशाः सन्तारयन्तु नः ॥ ७ ॥ ते पूजिता इति । त्वया पूजिता इति यावत्, ‘क्तस्य च वर्तमाने ' इति षष्ठी ॥ ७ ॥ faciun Gl

ततो गुह + संत्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ ८ ॥ प्रतिप्रविश्य – प्रतिनिवृत्त्य ॥ ८ ॥

  • सुख अवात्सीः कच्चिदिति क्रियाविशेषणम् । + 'सुखमवात्सी: कञ्चित्' इति

गुहेन प्रश्ने, रात्रावनुभूतसङ्कटादि नवेदनादिना काल या नमनिच्छन्, रामदर्श नैकचित्तः, पुन: प्रश्न प्रतिवचनादिकं यथा न स्यात् तथा प्रश्नस्योत्तरं देयमिति मत्वा उत्तर कार्यचिन्तयैव 'सुखा नः शर्वरी' इत्यत्रदद्भरतः, न तु वस्तुगत्या सुखत्वं शर्वर्याः- इति बोधयितुमाह कवि:- रामस्यानुवश इति । + संस्वरितं प्रतिप्रविश्येश्यन्वयः । तव सर्व-सु, तत्र नित्य-च. 2 235 वीमन् च. 3 संवरितः-च.