पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=164|center=दशरथोर्ध्वदैहिकम्|right=[[अयोध्याकाण्डः}}


किं ते व्यवसितं? राजन्! प्रोषिते मय्यनागते ।
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ ४ ॥

किं व्यवसितं - किं मनीषितम् ॥ ४ ॥

क्व यास्यसि ? महाराज ! हित्वेमं दुःखितं जनम् ।
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ ५ ॥
योगक्षेमं तु ते, राजन्! कोऽस्मिन् कल्पयिता पुरे ?
त्वयि प्रयाते स्वः, तात! रामे च वनमाश्रिते ॥ ६ ॥

ते पुरे —– अयोध्यायाम् ॥ ६ ॥

विधवा पृथिवी, राजन् ! त्वया हीना न राजते ।
हीनचन्द्रेव रजनी नगरी प्रतिभाति मा ॥ ७ ॥
एवं विलपमानं तं भरतं दीनमानसम् ।
अब्रवीद्वचनं भूयः वसिष्ठस्तु महामुनिः ॥ ८ ॥
प्रेतकार्याणि यान्यस्य कर्तव्यानि [१]विशांपतेः ।
तान्यव्यग्रं, महाबाहो ! क्रियन्तामविचारितम् ॥ ९ ॥

अव्यग्रं – परित्यक्तदुःखपारवश्यं यथा तथा । अविचारितं- दुःखहेतुतः प्राचीनपितृवैभवादिस्मरणरहितं यथा तथा ॥ ९ ॥

तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ।
[२]ऋत्विक्पुरोहिताचार्यान् त्वरयामास सर्वशः ॥ १० ॥


  1. विशांपते-ङ.
  2. ऋत्विज: - यज्ञकर्मणि वृताः, पुरोहिताः पुरोहितपरत्वेन शान्तिकपौष्टिकादिक्रियाप्रवर्तकाः, आचार्याः – वसिष्ठवामदेवादयः - गो.