पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६ सर्गः]
163
आदिशत् प्रेतकार्याय वसिष्ठो भरतं ततः


षट्सप्ततितमः सर्गः

[दशरथौर्ध्वदैहिकम्]

वसिष्ठस्य वचः श्रुत्वा भरतो [१] [२] धरणीं गतः ।
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ १ ॥

 वसिष्ठवचनात् पितुः प्रेतकार्ये भरतस्य प्रवृत्तिः । वसिष्ठस्येत्यादि । घरणीं गत इति । वसिष्ठं साष्टाङ्गं नमस्कृत्येत्यर्थः । गुरुनमस्कारश्च सर्वतः कर्मप्रवृत्त्यङ्गम् । धारणं गतः, घारणां गत इति वा पाठमचीक्लृपत्, यं कञ्चनार्थमवदच्च । अपि च 'तमेवं शोक' इति सर्गादिरिति ब्रूते । ‘दुःखेन जगाम रात्रिः' इत्येव सर्गविच्छेदोचितदेशः । तथैव सर्वत्रानुभवात् [३] ॥ १ ॥

[४]उद्धत [५] तैलसंरोधात् स तु [६] भूमौ निवेशितम् ।
आपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥ २ ॥
संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते ।
ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ ३ ॥

 घर्मवित् स इत्यन्वयः । आपीतमिति । बहुदिवसतैलावस्थानोपाधिना आपीतवर्णकं वदनं यस्य स तथा । दशरथमिति । उद्दिश्येति शेषः ॥ २-३ ॥


  1. धारणां गतः - धैर्यं प्राप्तः- गो. स्थितिं प्राप्त:-ती.
  2. धारणां-ङ.
  3. उपलभ्यमानकोशेषु सर्वेषु - ' जगाम रात्रि: ' इत्यत्रैव सर्गविच्छेदो दृश्यते । पूर्वसर्गस्य ६५ श्लोकटिप्पणी द्रष्टव्या ।
  4. उद्धृत्य तैलसंसेकात्- ङ.
  5. तैलसंरोधात्-तेलद्रोण्याः गो.
  6. प्रथमं भूमौ निवेशितं, तत: तैलमार्जनादिकं कृत्वा शयने संवेश्य।