पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
138
[अयोध्याकाण्ड:
कैकेयीविगर्हणम्

[१] निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः ।
दासभूतो भविष्यामि सुस्थितेनान्तरात्मना ॥ २७ ॥

 दासभूत इति । दासत्वं प्राप्त इत्यर्थः । मम राज्यस्वामित्वमीहितवत्यास्ते अनिष्टसंपादनार्थमेवेति शेषः । न केवलं त्वत्कोपमात्रादेवमाचरणम्, अपि तु परमार्थत एवेत्याह-सुस्थितेनेति । अभिषिक्तज्येष्ठानुवर्तनमेव परमं हितमिति सुप्रतिष्ठितेन चित्तेनेत्यर्थः ॥

इत्येवमुक्त्वा भरतो महात्मा
प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् ।
शोकातुरश्चापि ननाद भूयः
[२] सिंहो यथा मन्दरकन्दर-ङ. पर्वतकन्दरस्थः ॥ २८ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः


हठ (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे त्रिसप्ततितमः सर्गः


चतुस्सप्ततितमः सर्गः
[कैकेयी विगर्हणम् ]

तां तथा गर्हयित्वा तु मातरं भरतस्तदा ।
रोषेण महताऽऽविष्टः पुनरेवाब्रवीद्वचः ॥ १ ॥


  1. न केवलंनिवर्तनमात्रं, अपि तु भवदिष्टविपरीतमेव वर्तयिष्यामि चेत्याह-निवर्तयित्वेति । इदं च दास्यं हार्दमित्याह – सुस्थितेनेत्यादि ।
  2. गुहास्थत्वे सन्तोषातिशयात् सिंहस्य नादातिशय इत्यभिप्रायेणेदं विशेषणम्-गो. अथ वा-निरावृतप्रदेशकृतगर्जनापेक्षया गुहायां गर्जनस्य दुस्सहत्वादित:- एवं विशेषणम् ।