पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३ सर्ग:]
137
न तु कामं करिष्यामि तवाहं पापनिश्चये !


 धर्मेणैकेनैव रक्षा-रक्षणं येषां ते तथा । कुलक्रमागतं चारित्रं तथा । चारित्रविषयकं शौण्डीर्यं-श्लाध्यत्वं तथा ॥ २३ ॥

[१] तवापि, [२]सुमहाभागे ! [३]जनेन्द्रकुलपूर्वके ?
बुद्धेर्मोहः कथमयं संभृतस्त्वयि गर्हितः ॥ २४ ॥

 त्वयि चैवंविधं दुर्बुद्धिकारणं महावंशप्रसूतायां न पश्यामीत्याह – तवापीत्यादि । हे सुमहाभागे !, तदुपपादकं विशेषणं- जनेत्यादि । जनेन्द्रः – केकयकुलकूटस्थः- तत्कुलजः पूर्वकः-कारणं - - पिता यस्याः सा तथा, तस्याः सम्बुद्धिः । अतो महाकुलप्रसूतायास्तवानुचितोऽपि विगर्हितोऽयं बुद्धिमोहः त्वयि कथं संभूतः ? ॥

न तु कामं करिष्यामि तवाहं, पापनिश्रये !
त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ २५ ॥

 अस्तु यतः कुतश्चित् । त्वत्पापनिश्चयमहं नानुवर्तयामीत्याह-न तु काममित्यादि ॥ २५ ॥

एष त्विदानीमेवाहं अप्रियार्थं [४] तवानघम् ।
निवर्तयिष्यामि वनात् भ्रातरं स्वजनप्रियम् ॥ २६ ॥

 न केवलमिष्टाकरणम्, अनिष्टमपि तवानुष्ठास्यामीत्याह- एष त्विदानीमित्यादि । अप्रियार्थं-तत्संपादनार्थम् ॥ २६ ॥


  1. स्वकुलचरित्रक्रममभिधाय मातृकुलाचारक्रममप्याह- तवेति । जनेन्द्रा:-राजानः
    फुलपूर्वगा:- कुलपूर्वाः- कुलज्येष्ठाः, तान् गच्छन्तीति कुलपूर्वगाः, ज्येष्ठाभिषेचनशीला
    इत्यर्थ:- गो. ती.
  2. सुमहाभागाः -ङ.
  3. जनेन्द्रा: कुलपूर्वगा:-ङ.
  4. तव अप्रियार्थमित्यन्वयः ।