पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६ सर्गः]
79
कौसल्या तु तदा दीना पारं शोकस्य नागमत्

कौसल्या बाष्पपूर्णाक्षी [१]विधवाशोककर्शिता ।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ २ ॥

 अथ भर्तृशरीरमालिङ्गय अनुमरणोद्युक्तां कौसल्यामभिवार्य मन्त्रिणो राजशरीरं संस्काराय भरतागमनपर्यन्तं तैलद्रोण्यामस्थापयन् । तमग्निमित्यादि। विधवेति। विधवात्वप्राप्तः यः शोकः, तेन कर्शिता तथा । राज्ञः शिर उपगृह्येति । अङ्क इति शेषः ॥ २ ॥

सकामा भव, कैकेयि ! भुङ्क्ष्व राज्यमकण्टकम् ।
त्यक्त्वा राजान[२]मेकाग्रा, नृशंसे ! दुष्टचारिणि ! ॥ ३ ॥
विहाय मां गतो रामः भर्ता च स्वर्गतो मम ।
विपथे [३] सार्थहीनेव नाहं जीवितुमुत्सहे ॥ ४ ॥

 अकण्टकत्वमेव कैकेय्याः प्रदर्शयति - विहाय मामित्यादि । विपथे–कान्तारदुर्मार्गे, ‘ऋक्पूर....' इति समासान्तः । सार्थ:- परिषत् ॥ ४ ॥

भर्तारं तं [४]परिष्वज्य का स्त्री दैवतमात्मनः ।
इच्छेत् जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ ५ ॥

 भर्तारं परिष्वज्य - तेन सह भोगान् भुक्त्वेति यावत् ; तं कालान्तरे परित्यज्येति शेषः । व्यक्तः धर्मः-स्त्रीधर्मः यया सा तथा, 'धर्मादनिच् केवलात्' इत्यनिच्, 'मन--' इति ङीब्निषेधः ॥ ५ ॥

न लुब्धो बुध्यसे दोषान् किम्पाकमिव भक्षयन् ।
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ ६ ॥


  1. विविधं-सर्वत्र.
  2. एकाग्रा-पुत्रराज्यमात्रे हठा ।
  3. दूरदेशं गच्छन्तः परस्पररक्षणाबुद्ध्या सङ्घीभूय गच्छन्ति । अयं सङ्घः सार्थ इत्युच्यते ।
  4. परित्यज्य-ङ. च.