पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
78
[अयोध्याकाण्डः
तैलद्रोण्यधिशयनम्


 [१] [२] तत् परित्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम्
सर्वतस्तुमुला' क्रन्दं परितापार्तबान्धवम् ॥२८॥
सद्यो निपतितानन्दं दीनविक्लवदर्शनम् ।
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ॥ २९ ॥

 [३] पर्युत्सुकेति । वृत्तान्तपरिज्ञानपर्युत्सुकेति यावत् । दिष्टान्तमीयुष इति । कालघर्मं प्राप्तस्येत्यर्थः ॥ २९ ॥

अतीत[४] माज्ञाय तु पार्थिवर्षभं
 यशस्विनं संपरिवार्य पत्नयः ।
भृशं रुदन्त्यः करुणं सुदुःखिताः
 प्रगृह्य बाहू व्यलपन् अनाथवत् ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चषष्टितमः सर्गः


नग (३०) मानः सर्गः ॥ ३० ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चषष्टितमः सर्गः


षट्षष्टितमः सर्गः [ त्रैलद्रोण्यधिशयनम् ]

[५] तमग्निमिव संशान्तं अम्बुहीनमिवार्णवम् ।
हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ १ ॥


  1. श्लोकद्वयमेकान्वयम् ।
  2. तत्समुत्रस्त --ड.
  3. पूर्वं पर्युत्सुकजनाकुलं सद्म नरदेवस्य दिष्टान्तमीयुष:-नरदेवे मरणं प्राप्ते सति समुत्रस्तसंभ्रान्तं -इत्येवमादिविशेषणयुक्तं बभूव - गो.
  4. आज्ञाय - सम्यक् ज्ञात्वा ।
  5. श्लोकद्वयमेकान्वयम् ।