पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
44
[अरण्यकाण्ड:
रक्षोवधप्रतिज्ञा



 एवं प्रजानामरक्षणे प्रत्यवायमुक्ता रक्षणेतु परमदुर्लभब्रह्म कुल- मात्रलभ्यब्रह्मलोकावाप्तिरपीति चाहुः - नित्ययुक्ता इत्यादि । प्राप्नो- तीति- इहेति शेषः । शाश्वत-नित्याम् । अत एव बहुवार्षिक- बहुवर्षव्यापिनीम् ।। १३ ।।

[१][२]यत्करोति परं धर्म [३] मुनिर्मूलफलाशनः ।
तत्र राज्ञः चतुर्भागः प्रजा धर्मेण [४]रक्षतः ॥ १४ ॥

 ननु भवतु प्रजारक्षणं, तत् षष्ठांशग्रहात् कर्तव्यमेव । वनवासिभिरनुपकारात् कुतः तद्रक्षणं ? इत्यत्राहुः – यत्करोतीत्यादि । प्रजाः इति । वानप्रस्थप्रजा इत्यर्थः || १४ ||

सोऽयं ब्राह्मणभूयिष्ठः वानप्रस्थगणो महान् ।
त्वनाथोऽनाथवत् राम ! राक्षसैः [५]बध्यते भृशम् ॥ १५ ॥

 ब्राह्मणभूयिष्ठ इत्यनेन क्षत्रवैश्यवानप्रस्थाश्च केचिदिह सन्तीति गम्यते ।त्वं नाथः - रक्षकः यस्य स तथा ॥ १५ ।।

एहि पश्य [६] शरीराणि मुनीनां भावितात्मनाम् ।
[७].हतानां राक्षसैर्घोरैः बहूनां बहुधा वने ॥ १६ ॥
[८] नदीनिवासानां अनुमन्दाकिनीमपि ।
चित्रकूटालयानां च क्रियते कदनं महत् ॥ १७ ॥

 हतानां शरीराणीति । अभक्षित्वा केवलं मारयित्वा त्यक्तानीति सकलदण्डकारण्यक्रोडीकारेण पीडामाहुः- पम्पेत्यादि ।



  1. यस्तु कर प्रदानासमथों मुनिजनः तद्रक्षणं कुत इत्यत्राह-यदिति। यत् धर्म-
    करोति, तत्र धर्मे राश: चतुर्भाग:- चतुर्थांशो भवति-गो
  2. यः करोति-ङ.
  3. पर्णमूल-ड
  4. रक्षितुम् - ङ.
  5. इन्यते-ज. बाध्यते-ड.
  6. शरीरपदं कङ्कालोपलक्षकं वा ।
  7. भीतानां - उ
  8. पम्पावन-ख.