पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ सर्ग:]
43
राक्षसैर्वध्यमानांस्तु मुनीरत्वं त्रातुमर्हसि



 ऊचुरिति । किमूचुरित्यतः - त्वमित्यादि । इक्ष्वाकुकुलस्य प्रधानः, पृथिव्याः नाथः इति विभज्यान्वयः | देवानां मधवानि- वेत्ययं यशआदिविश्रुतत्वेन ॥ ८ ॥

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।
[१].पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥ ९ ॥

त्वमासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।
[२]अर्थित्वात्, नाथ ! वक्ष्यामः तच्च नः क्षन्तुमर्हसि ॥ १० ॥

 अर्थित्वात्-अर्थिभावेन, यद्वक्ष्यामः तत् क्षन्तुमर्हसीति योजना |

अधर्मस्तु महान्, तात! भवेत्तस्य महीपतेः ।
यो हरेत् बलिषड्भागं न च रक्षति पुत्रवत् ॥ ११ ॥

>[३] [४]युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानित्र ।
नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः ।। १२ ।।

 तदेवाह — अधर्मस्तु महानित्यादिना । प्रत्यवायाद्यनिष्टश्रवण- परिहाराय [५] बलये-पूजायै दत्तः यः ष भागः – षष्ठांशः प्रजाभिः । तथा प्राणैरिष्टानिति -प्राणेभ्योऽधिकप्रियानित्यर्थः ।। १२ ।।

प्रामोति शाश्वतीं, राम ! कीर्ति स बहुवार्षिकीम् ।
ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते । १३ ।।



  1. पितृतत्वं ङ. ज
  2. अर्थिभावेन यत् कूरमपि वक्ष्यामः तत् क्षन्तुमहंसि-ति. किमेते एवं
    यन्तीति न भाव्यमिति भावः ।
  3. युञ्जानः प्रजारक्षणे यतमानः सर्वान् देशवासिनः वान् प्राणानिव
    प्राणैरिष्टान्-प्राणेभ्योऽप्यधिकप्रियान् सुतानिव-ति. स्वान् प्राणान्-
    सन्द्रियाणि युआन:- प्रजारक्षणे नियोजयन्-रा.
  4. प्रजाः स्वानिब च प्राणान् स्वस्तानिव नित्यश:
  5. बलि:-करो वा, 'भागधेयः करो