पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ सर्गः]
27
निचख्नतु: ततो गर्ते तत्कायं भ्रातरा। भौ



आशुविक्रमौ - क्षिप्रकारिणौ । स्थिरौ-दृढचित्तौ ॥ २९ ॥

अवध्यतां प्रेक्ष्य[१] महासुरस्य तौ
शितेन शस्त्रेण तदा नरर्षभौ ।
[२]समर्थ्य चात्यर्थविशारदावुभौ
[३]बिलं विराधस्य वधं प्रचक्रतुः ॥ ३० ॥

 अवध्यतामित्यादि । शस्त्रेणावध्यतां प्रेक्ष्य- विचार्य, बिलं समर्थ्य - संपाद्य, तत्र बिले विराघस्य वधं प्रचक्रतुः ॥ ३० ॥

[४].स्वयं विराधेन हि मृत्युरात्मनः
प्रसह्य रामेण [५].यथार्थमीप्सितः ।
निवेदितः काननचारिणा स्वयं
न मे वधः शस्त्रकृतो भवेदिति ॥ ३१ ॥

 उक्तार्थस्यैव तूपसंहाररूपेण वादः - स्वयमित्यादि । यथार्थमिति पाङ्कः पाठः । योग्यतायामव्ययीभावः । यथार्थ- स्वप्रयोजनोचितं, रामेण प्रसह्य स्वयं साध्यो यो मृत्युरीप्सितः, तमात्मनो मृत्युं उद्दिश्य काननचारिणा विराधेन स्वयमेव शस्त्रकृतो वधो न भवेदिति निवेदितोऽभूत् । रामः इति शेषः ॥ ३१ ॥

तदेव रामेण निशम्य भाषितं
कृता मतिस्तस्य बिलप्रवेशने ।
बिलं च रामेण बलेन रक्षसा
प्रवेश्यमानेन वनं विनादितम् ॥ ३२ ॥



  1. महानलस्य-ङ,
  2. संमन्य - कु.
  3. बिले- सर्वत्र.
  4. न केवलं. स्वनिश्चयः, विराधेन चानन्तरे तथोक्तमित्याह —स्वयमिति - गो
  5. वषार्थ- ङ. झ