पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
26
[ अरण्यकाण्ड:
विराधखननम्



इत्युक्ता लक्ष्मणं रामः प्रदरः खन्यतामिति ।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ २६ ॥

 उक्तानुवादपूर्व व्यापारान्तरोपदेशः— इत्युक्तेत्यादिपादन । कण्ठप्रदेशे आक्रम्य तस्थाविति । स्वन्यमानश्वम्रात् दूरे, परिलुठन- व्यावृत्त्यर्थमिति शेषः ॥ २६ ॥

ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् ।
अखनत् पार्श्वतः तस्य विराधस्य [१] महात्मनः ॥ २७ ॥


विराधस्य महात्मनः' इति पाङ्कः पाठः । आत्मा देहे घृतौ”, महाशरीरस्येत्यर्थः । गन्धर्वत्व प्रत्यापत्त्यभिप्रायेण च कविना महात्मनः इति प्रयोगः । एवं स्थिते 'विराघस्य दुरात्मनः इति श्रद्धाजडाः केचन पाझपाठं नाशयन्ति ॥ २७ ॥

तं मुक्तकण्ठं [२]निष्पिष्य [३] शङ्कुकर्ण महास्वनम् ।
विराधं प्राक्षिपत् श्वभ्रे नदन्तं भैरवखनम् ॥ २८ ॥

 तं मुक्तकण्ठमिति – श्वभ्रप्रक्षेपणार्थं रामेण मुक्तकण्ठाक्रमण- मित्यर्थः। शङ्कुकर्णं—शङ्काकारौ शङ्कुवत् कठिनौ च कर्णौ यस्य सः, तथा । महाखनमिति बहुव्रीहिः। एवंभूनं विराधं मैरवस्वनं- भयङ्करस्वनं यथा तथा नदन्तमेव सन्तं श्वभ्रे प्राक्षिपत् ॥ २८ ॥

[४]तमाहवे निर्जितमाशुविक्रमौ
[५].स्थिरावुभौ संयति रामलक्ष्मणौ ।
मुदाऽन्वितौ चिक्षिपतुर्भयावह
नदन्तमुत्क्षिप्य [६] बिले तु राक्षसम् ।। २९ ।।








TRIPPERS

4

  1. दुरात्मनः-ड.
  2. उत्क्षिप्य - ङ.
  3. शत्रुवत् अचलायमानौ कर्णौ यस्य-रा. शङ्क:-कीलं, तत्सदृशकर्ण
    गर्दभाकारं वा । शत्रुकणों गर्दभोष्ट्रो' इति बाणः- गो.
  4. महावने दारुण-ङ,
  5. स्थिता- ङ
  6. बलेन-ड.. झ.