पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

532 पम्पादर्शनम् [ अरण्यकाण्ड:

  • 1 हरिः ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ॥ २६ ॥

अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः । सुग्रवि' मभिगच्छ वं वानरेन्द्रं, नरर्षभ ! ॥ २७ ॥ हरिः-वानरः । ऋक्षरजोनाम्नः- तन्नामिकाया (?) इत्यर्थः ।

  • इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ।

राज्यअष्टेन 'दीनेन तस्यामासक्तचेतसा | कथं मया बिना शक्यं सीतां, लक्ष्मण ! जीवितुम् ||२८|| इत्युवाच।। अन्तरान्तरा सीताशोकं उवाचेत्यर्थः ॥ २८ ॥ इत्येवमुक्ता मदनाभिपीडितः स लक्ष्मणं वाक्यं 'अनन्यचेतसम् ।

  1. विवेश पम्प नलिनीं मनोरमां

रघूत्तमः शोकविषादयन्त्रितः ।। २९ ।। इत्येवमुक्तयादिः उपसंहारेण वादः । नलिनीभिः मनोरमा | तथाकृतः ॥ २९ ॥

  • अत्र 72-21 श्लोकव्याख्या, टिप्पणी च द्रष्टम्या । + सुग्रीव-

मभिगच्छेत्यनन्तरं इत्युक्तेति शेषः । इत्युक्ता पुन: लक्ष्मण इति – वक्ष्यमाणप्रकारं उवाचेत्यन्वयः- गो. किष्किन्ध काण्डेऽपि, रामः आदौ लक्ष्मणद्वारेव व्यवइरतीति द्रष्टव्यम् । विवेश, स्नानायेति शेष:- गो. अस्य श्लोकस्य उपसंहारवाक्यत्वात् ' जगाम' इत्यर्थो वाऽत्र विवक्षितः । अथवा --'प्रविवेश तत: पम्पां' इतिबन्नेयम् । 4 हीनेन-ङ. 2 मभिगच्छाव: - ङ. 3 इत्युक्ता च-ङ. 6 मनोहरां-ड.. हरे:- ङ. अदीनचेतसम्, अदीनसश्व:- ङ.