पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

492 कबन्धवृत्तान्तः [ अरण्यकाण्ड:

स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति । 'अभिशापकृतस्येति तेनेदं भाषितं वचः ॥ ५ ॥ यदा छित्वा भुजौ रामः त्वां दहेत् विजने वने । तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ॥ ६ ॥ श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि, लक्ष्मण। अभिशापकृतस्येति । मत्कर्तृकप्रघर्षणेन त्वत्कृतस्यास्य शापस्य अन्तः, कदा मम भवेत् इति याचितः । तेन मयैवं याचितेनेत्यर्थः । कीदृशम् ? इत्यतः विपुलमित्यादि विशेषणत्रयम् ॥ ५-६॥ स्वं रूपं 14300 इन्द्र शापादिदं रूपं प्राप्तमेवं रणाजिरे ॥ ७ ॥ एवंवृत्तं मां साक्षात् दनोः पुत्रं विद्धि । ननु शक्रादितुल्य- रूपस्य शापवशात् कुत्सिता कारापत्तावपि कुतः कबन्धरूपापत्तिः ? इत्यतस्तदाह --इन्द्रशापादिति । तेन इन्द्रेण सह रणाजिरे- युद्धामणे ॥ ७ ॥ अहं हि तपसोग्रेण पितामहमतोषयम् । दीर्घमायुः स मे प्रादात् ' ततो मां पं विभ्रमोऽस्पृशत् ||

  • अभिशापशब्देन तन्निमित्तं घर्षणं लक्ष्यते-गो. अभिशाप: - मिथ्यानिन्दा |

मत्कृतमिथ्या निन्द। फलस्य शापस्येति वा । अनन्तरलोकगतं ‘श्रिया विराजित' इत्येतदत्रान्वेनीति भावः । गोविन्दराजेन तु - तर्हि कबन्धरूपप्राप्तिः केन हेतुनेत्यत्राह - श्रियेति - इति व्याख्यातम् । अथवा पूर्वं श्रिया विराजित दनोः पुत्रं मां विडीत्यर्थः । + विभ्रमः- अवध्यत्वेऽपि तदधिकलेशप्राप्त्यव काशशानाभावकृतः । अयमर्थ: ११ श्लोके व्यक्तः । इयत्रासुराणां प्रकृतिरेव । कोपा-ड.. 2 मानो मां च तदाऽस्पृशत्-ड. -PMX1