पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ सर्गः] स कृतबाहुः ताभ्यां हि स्वां कथामाह दानवः. एकसप्ततितमः सर्गः [कबन्धवृत्तान्तः] पुरा, राम! महाबाहो ! महाबल'पराक्रमम् । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् । यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥ १ ॥ अथ कबन्धः खवृत्तान्तोपदेशपूर्वं मनसा चास्योपकारं चिकीर्षुः शरीरस्य दाहं नियुक्ति । पुरा रामेत्यादि । अचिन्त्यं - अचिन्त्यवैभवम् । तदवे प्रदर्श्यते - यथा सोमस्थेत्यादि ॥ १ ॥ रूपम् । 491 सोऽहं * रूपमिदं कृत्वा लोकवित्रासनं महत् । ऋषीन् वनगतान्, राम! त्रासयामि ततस्ततः ॥ २ ॥ लोकवित्रासनं कृत्वेति । तेजो बलवैभवमहिम्नेति शेषः । त्रासयामि इति । अत्रासयमिति यावत् ॥ २ ॥ ततः स्थूलशिरा नाम महर्षिः कोपितो मया । सञ्चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ॥ ३ ॥ तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना । 'एतदेव नृशंसं ते रूपमस्तु विगर्हितम्' ।। ४ ।। एवमुक्तः इत्येवंशब्दार्थः - एतदेवेत्यादि । एतत् - दिव्यं नृशंसं– क्रूरम्, विगर्हितं चैवामित्वत्यवदत् ॥ ४ ॥ -

  • इदं रूपं - रक्षोरूपं वैभवेन कृत्वा-ति. लोकानां भयजनकमिदं रूपं

बुद्धिपूर्वकमेव दर्पाल्लीलया गृहीत्वा ऋषीन् अत्रासयम् । 1 पराक्रम-ङ.