पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्टः तेन च सौमित्रिः तदोवाचात्मनो कथाम् सुसंहृष्टाविति । कदलीदण्डवत् सुखच्छदनलाभात् || दक्षिणो दक्षिणं बाहुं *असक्तमसिना ततः । चिच्छेद रामो वेगेन सव्यं ' वीरस्तु लक्ष्मणः ॥ ९ ॥ दक्षिणः -समर्थः । अथवा दक्षिणपार्श्वस्थः ॥ ९ ॥ 1 ७० सर्ग:] स पपात महाबाहुः छिन्नबाहु महावनः । खं च गां च दिशश्चैव नादयन् जलदो यथा ।। १० ।। गां-भुवम् ।। १० ।। 052 + स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिष्क्रुतः । दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ ११ ॥ कौ युवामिति पप्रच्छेति । पूर्व अप्राप्तोत्तरत्वात् पुनः प्रश्नः ॥ 489 इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः । 2 शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ १२ ॥ अय+मिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः । अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ १३ ।। इक्ष्वाकुदायाद इति । दशरथपुत्र इत्यर्थः ॥ १३ ॥ 3 'मात्रा प्रतिहृते राज्ये रामः प्रत्राजितो वनम् । मया सह चरत्येष भार्यया च महद्वनम् ॥ १४ ॥

  • असक्तं - आस्थारहितं यथा तथा-रा. आयासं विनेति यावत् । + एतावता

केनाप्यकृतस्य महासाइसस्य करणात् स्तब्धः सः, स्वशापं च स्मरन् - कौ युवामिति पृच्छति । इक्ष्वाकुवंशप्राप्तदायरूपराज्याई : - अनेनेक्ष्वाकुवंश प्रभवत्वं, ज्येष्ठत्वं च सुचितम् । 3 अयं धीरस्तु- ङ. श्लोकः कुण्डलितः- कु. 2' शशंस तस्य काकुत्स्थं कवन्धस्य महाबल: