पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कबन्धनिग्रहः [अरण्यकाण्ड: बाहुच्छेदमात्रमेव कर्तव्यं, न तु प्राणवियोजनं युक्तमित्याह- निश्चेष्टानामिति । प्रतिप्रहाररहितानां इत्यर्थः । जगतीपतेः- क्षत्रियस्य । ऋतुमध्यपशुदृष्टान्तः निश्चेष्टत्वे ॥ ६ ॥ 488 एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्यं तदा रौद्रः तौ मक्षयितुमारभत् ॥ ७ ॥ तयोः संजल्पितमित्यन्वयः । भक्षयितुमारभदिति । हस्ताभ्या- माकृष्टवानित्यर्थः ः ॥ ७ ॥ ततस्तौ * देशकालज्ञौ खद्गाभ्यामेव राघवौ । अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥ ८ ॥ यावत्-ती. वस्तुतस्तु– यथाश्रुतपाठे, ऋतुमध्योपनीतानां निश्चष्टानां पशूनामिव जगतीपते:- क्षत्रियस्य वषः कुत्सितः । एकस्य क्षत्रियस्य अन्येन इनने प्रसक्ते, यशपशुमिरिव तूष्णीं स्थित्वा स्वहननावकाशदानं अतिजुगुप्सितम्। यावत्प्राणं योद्धष्यमेव क्षत्रियेणेत्यर्थः । अथवा – निचेष्टानां वधः भवेदेवेति सामान्यन्यायपरं पृथग्वाक्यम् । स च जगतीपते:-- क्षत्रियस्य कुत्सित इत्यपरं वाक्यम् । जगतीपते इति पाठे तु- हे राजन्, जगतीपते, राघव, इति पदत्रयं योद्धव्यताया आवश्यकत्वसूचकम् । पूर्वपाठेऽपि संबुध्यन्तपदद्वयस्य सार्थक्यं प्रवमेव किल वक्तव्यम् । राघव ऋतुमध्योपनीतानां पशूनामिव निश्चेष्टाना- मस्माकं वधः कुत्सितः- गर्हितः, अतः प्रतीकारः कर्तव्य एवेत्यर्थः । एवं तर्हि कुतो बाहुच्छेदमात्रं वदति लक्ष्मण इति चेत्-तत्र मूलं उक्त-भुजविक्रम इति । कबन्ध- स्यास्य भुजावेव परमसाधनौ । अतस्तयोश्छेद एव पतद्वघोपाय इति भावः । एवं व्याख्यां परित्यज्य, स्वभक्षणोद्यतं कबन्धमुद्दिश्य-अयं निश्चेष्टः, अतो न इन्तव्य इति कथनपरं व्याख्यानं न स्वरम् । अथवा निश्चेष्टानां हि वधः कुत्सितः, स्वस्थ तेनानपकारात् । अयं तु नः निश्चेष्टः, किन्तु अस्मद्धननोचत एव । अतोऽस्य वधः युक्त एव । पशुदृष्टान्तस्तु निश्चेष्टत्वमात्रे प्रायः ॥

  • तस्य भुजयो: छेदनानुकूलदेशकालौ जानन्तौ तदनुगुणदेशकाललाभात्

सुसंही, खड्गाभ्यामेवाच्छिन्दताम् । धनुषोऽप्यपेक्षा नासीदिति भावः । एवमतिदुर्जयत्वेन पूर्व गृहीतस्य तद्रक्षसः सुखतया तदाहुच्छेदानुगुणदेशकाललाभादेव अत्यन्तसंहृधविति । अत एव 'असक्तं' इत्युक्तिरनन्तर श्लोकेऽपि ।