पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८-६९ सर्गः ) बनान्तरं गाइमानी ततस्तो शोकविलो स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः । महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ।। ३७ ।। पुण्यां--पुण्यैकलभ्यां, अत एव शुभसुखै कस्वभावाम् । कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिग येततो मनः वनं * सुरेन्द्राविव विष्णुवासवी ॥ ३८ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे अष्टषष्टितमः सर्गः ॥ पक्षिसत्तम इति । तद्वचसीत्यर्थः । सीताधिगमे मनः प्रवेश्य विधाय वनं जग्मतुः इत्यन्वयः | दुर्ग (३७) मानः ॥ ३८ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे अष्टषष्टितपः सर्गः ॥ एकोनसप्ततितमः सर्गः [[कबन्धग्रहणम्] कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ । 'अवेक्षन्तौ चने सीतां * पश्चिमां जग्मतुर्दिशम् ॥ १ ॥

  • विष्णुवासवाविव इत्यनेन सीतान्वेषणं भावनामात्रमिति सूच्यते-गो. सुरेन्द्र,

देवश्रेष्ठौ विष्णुवासवाविन उपेन्द्र-इन्द्रतुल्यौ ताविस्यन्वयः ॥ + पश्चिमां-- दक्षिणपश्चिमा मित्यर्थः । दक्षिण दिशमिति । दक्षिणपश्चाम ह्यभयथा व्यवर्तुं शक्या -- गो. पश्चिमां- प्रतीपां, एतावता उषितदेशस्य प्रतीपभूता दिक दक्षिणा उत्तरदेशत भगतयोः स्वदेशापेक्षया प्रतीपता दक्षिणेति वा ॥ 1 अन्वेषन्तौ-ड.