पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

472 सीतावृत्तान्तपरिज्ञानम् - मया त्वं समनुज्ञातः गच्छ लोकाननुत्तमान् । गृध्रराज ! महासत्व ! संस्कृतश्च मया व्रज ॥ ३० ॥ [अरण्यकाण्ड: बहुत्वात् बहुवचनम् । अन्यथा गतिशब्देन पौनरुक्तथं, अनन्वयश्च, समनुज्ञातः संस्कृतश्च इति पदद्वयानर्थक्यं च । ननु मानुषभावं भावयतः श्रीरामस्य कथं मुक्तिप्रदानं ? तस्य परत्वासाधारणचिह्नत्वादिति चेत् -'सत्येन लोकान् जयति' इत्युक्तरीत्या स्वार्जितधर्म- विशेषेण स्वाधीनसर्वलोकत्वाविरोधात् । · केचित्तु – मया संस्कृतः ततोऽनुशातस्त्वं यज्ञशीलादीनां या गतयः तान् लोकान् गच्छ, सर्वान्ते मां व्रज । न च निर्हेतुकमुक्तिदानेऽतिप्रसङ्गः, स्वकार्यमुद्दिश्य प्राणत्यागस्यैव हेतुत्वात्-इत्याहु:- गो. गम्यत इति गति: लोकः । यज्ञशीलादीनां लोकमार्गेण अपरावर्तिनां पुनरावृत्तिरहितानां मुक्तानां लोकान् पूजायां बहुवचनम्, वैकुण्ठाख्यं लोकं ब्रज-ति. ननु भगवता रामेण तिरश्चो गतायुषः संस्कारकरणं कथमिति चेत् – 'न शूद्रा भगवद्भक्ता: ' इत्यत्र शूद्रशब्दस्योपलक्षणार्थत्वात् भगवद्भक्तानां सर्वप्राणिनां मोक्षाधिकारस्य गम्यमानत्वात्। नन्वेवं सति जटायुषो मोक्षप्रदत्वात् रामस्य परमात्मत्वं प्रतीयते – एवं समस्तकल्याणगुणाकरस्य श्रीमन्नारायणस्य सीतामुद्दिश्य कथं विलाप इति चेत् - 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ' इत्यनेन प्रकारेण सर्वेश्वरस्याप्याश्रित वत्सलत्वात् तेषां दुःखेन स्वयमपि दुःखित इव भाति- तनिश्लोकी. अधिकं तत्रैव द्रष्टव्यम् । अत्र प्रथमपादेन इष्टयागादिफलं, चतुर्थपादेन पूर्तखातादिफलं द्वितीयपादेन नित्यकर्मफलं तृतीयपादेन ब्रह्मोपासनफलं, वीरप्राप्यफलं वा स्वरसतो भाति । अत्र 'स्वार्जितं किञ्चिदष्यस्ति मया हि तपसः फलं राजन् स्वतेजसा तस्य सशरीरो दिवं ब्रज' (बाल-60-14) ' या गति: सर्वसाधूनां स्वाध्यायात्तपसश्च या | देहन्यासभृतां या च तां गतिं गच्छ पुत्रक' (अयो. 64-44) अक्षया नरशार्दूल मया लोकाः जिता: शुभा:- प्रतिगृह्णीष्व मामकान्' (अर. 5-31) 'राघवो वाक्यमब्रवीत् । अहमेवा- हरिष्यामि सर्वलोकान् महामुने' (अर. 5-33) 'सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा । तेषु देवर्षिजुष्टेषु जितेषु तपसा मया । मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मण: ' (अर. 7-12) 'अहमेवाहरिष्यामि स्वयं लोकान् महामुने' (अर. 7-14) इत्यादीनि वचनानि ' 'आत्मानं मानुषं मन्ये रामं दशरथात्मजम्। योऽहं यस्य यतश्चाहं भगवांरतद्भूवीतु मे' (युद्ध. 120-11) 'अनृतं नोक्तपूर्व मे न च वक्ष्ये- कदाचन' (किष्कि. 14-14) 'कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ' 120-7) इत्यादीनि वचनानि च विमर्शनीयानि ॥ द्विज-ङ.