पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ सर्ग:] ब्रूतिर्दुःखे हि महतां सिद्धिमार्ग प्रदार्शनी तत्रैव न चलितव्यं इत्याशयेन यथोक्तलोकस्वभावं महापुरुषविषये दर्शयति – लोकेत्यादि । लोकस्य-संसारिणः स्वभावप्राप्तः एषः औपाधिक दुःखसंबन्ध इत्यर्थः तदेव प्रदर्शयति- ययातिरित्यादि । अनयः - अनयमूलं दुःखमित्यर्थः । स तु महर्षिभिः स्वर्गं नीयमानः स्वानयेन स्वर्गात् भ्रष्टः सर्पस्वरूपं दुःखं प्राप्तः ॥ ७ ॥ 1 महर्षियों वसिष्ठस्तु यः पितुः नः * पुरोहितः । + अह्ना पुत्रशतं जज्ञे तथैवास्यपुनर्हतम् ॥ ८॥ तथैवास्यपुनर्हतमिति । एकाहेन पुनः अस्य वसिष्ठस्य पुत्र- -तदुःखं प्राप्तम् । विश्वामित्रको पात् ॥ ८ ॥ शतमपि हतं - 457 या चेयं जगतां माता देवी लोकनमस्कृता । अस्याश्च चलनं भूमेः दृश्यते, सत्यसंश्रव | ॥९॥ भूमेश्वलनमिति। कदाचित् चलनदुःस्वमित्यर्थः ॥ ९ ॥ यौ धर्मों जगतां नेत्रौ +यत्र सर्वं प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ।। १० ।। यौ घर्मी - विद्याधर्ममयपरावरधर्मप्रवर्तकौ, अत एव जगतां नेत्रौ — जनिमृतिचक्र संसरत्सर्वस्रोतसां सर्वस्य प्रपञ्चकृत्यस्य नेतारौ, औणादिक: तुन् नयतेः कर्तरि । यत्र सर्व भूमविग्रहशोभादि त्रियोगकृत्यं च साक्षात् प्रतिष्ठितं तौ च ग्रहणं - -राहुग्रासदुःखं अभ्युपेतौ ॥ १० ॥

  • नः पितुरित्यन्वयः ॥ + अह्ना पुत्रशतं हृतं - विश्वामित्रकोपेन युगपत्

पुत्रशतनाशदुःखमनुभूतमिति भाव:- गो. (बाल-59 सर्गे अयं वृत्तान्तो द्रष्टव्यः) । +सूर्यस्य वर्षहेतुत्वात् चन्द्रस्य ओषधिहेतुत्वाच्च - गो. 'सर्व-ज. 2 संभय- ङ.