पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
14
अरण्यकाण्ड:
विराधनिरोधः



[१]अनाथ इव[२]. भूतानां नाथस्त्वं वासवोपमः ।
मया प्रेष्येण, काकुत्स्थ ! किमर्थं परितप्यसे ? ॥ २३ ॥

 अनाथ इवेति । नाथसापेक्षः प्राणी नाथरहितः सन् यथा शोचति तद्वदित्यर्थः । अथ भूतानां नाथ: - त्राता । तत्र हेतु:- वासवोपम इति । लक्ष्मणस्य तु वासवानुपचरित सर्वभूतनाथब्रह्मतत्त्व- ज्ञानं ऋषीणामिव नास्त्यत्र, रामस्यैव तथात्वज्ञानावरणे का कथाऽस्य ? मया प्रेष्येणेति-सहित इति शेषः ॥ २३ ॥

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ २४ ॥

  किं त्वयेइ क्रियेतेल्यतः - शरेणेत्यादि ॥ २४ ॥

[३]राज्यकामे मम क्रोधो भरते यो बभूव ह ।
तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥ २५ ॥

 तं विराधे विमोक्ष्यामीति । भरतेन राज्यकामनायाः अप्रदर्शितत्वात् तत्र दुर्मोक्षमिति शेषः ॥ २५ ॥



  1. स्वयमेव सर्वशक्तस्य, शक्तपुरुषसहायकस्य च परितापः न युक्त इत्याशयः ।
     
  2. लोकानां ङ
  3. अत्र - भरते दोषाभावस्य स्पष्टं शानेऽपि कथमेवमुक्ति: ? इत्याशंक्य,
    ‘ब्यसनकाले लोको वाच्यमवाच्यं च न जानातीत्यमुमर्थ व्यञ्जयितुमेवमुक्तं' इति
    गोविन्दराजीये समाहितम् । वस्तुतस्तु ' भरते यो बभूव' इत्येवोक्तेः, चित्रकूटं प्रति
    भरतागमनवेलायां लक्ष्मणेन प्रथमं संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्यामिषेचनम् ।
    आवां हन्तुं समभ्येति भरतः कैकयीसुतः ॥' इत्युक्तवा, अनन्तरं भरतभावज्ञानानन्तरं
    तादृशकोपस्य संहर्तव्यतायाः प्राप्तत्वात् निरवकाशं तं कोपं सीतापहारिणि विराधे प्रमो-
    क्ष्यामीत्युच्यत इति न कश्चिद्दोषः ।।