पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सीताऽन्वेषणम् [अरण्यकाण्ड: "लेह पश्यामि, मौमित्रे वैदेहीं ! पर्वते शुभां' इत्युक्तोऽपि पुनर्विलापपरिहाराय लक्ष्मणो ब्रूते-तो दुःखाभिसंतप्तः इत्यादि । दीप्ततेजसं भ्रातरं लक्ष्मणो वाक्यं अब्रवीत् ॥ २३ ॥ 422 प्राप्स्यसि त्वं, महाप्राज्ञ ! मैथिली जनकात्मजाम् ॥ २४॥ यथा विष्णुः महाबाहुः बलिं बद्धा महीमिमाम् । किमिति: दण्डकारण्यं विचरन् त्वं सीतां प्राप्स्यसीति । तत्र दृष्टान्तः - यथा विष्णुंरित्यादि ॥ २४ ॥ एवमुक्तस्तु मौहार्दात् लक्ष्मणेन से राघवः ।। २५ ।। उवाच दीनया वाचा दुःखाभिहतचेतनः । वनं सर्व सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥ २६ ॥ गिरिश्वायं, महाप्राज्ञ ! बहुरुन्दरनिर्झरः | नेह पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ २७ ॥ एवं लक्ष्मणास्तु कृतं, करणेन किमित्याह वनं सर्वामित्यादि । 'नेह पश्यामी 'त्यादिमार्घश्लोकत्रयं प्राचीनगठे पाकम् । तत्तु कैश्चित् पुनरुक्तदुर्बुद्धया व्यक्तम् ॥ २७ ॥ एवं स विलपन् रामः सीताहरणकर्शितः । दीनः शोकसमाविष्टः मुहूर्त विहलोऽभवत् ॥ २८ ॥ विह्वलः-परवशः ॥ २८ ॥ 'वीरेण-ज.