पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

410 शून्याश्रमदर्शनम् षष्टितमः सर्गः [शून्याश्रमदर्शनम् ] 'भृशमात्रजमानस्य *तस्थाधोवामलोचनम् । प्रास्फुरच्चास्खलद्रामः वेपथुश्चाप्यजायत ॥ १ ॥ अथ आश्रमं प्राप्य अदृष्टा च सीतां तस्यान्वेषणं सप्रलापम् । आगच्छतः इत्यर्थः । भृशमात्रजमानस्येत्यादि । व्रज गतौ । भृशं प्रास्फुरत् इत्यन्वयः ॥ १ ॥ [अरण्यकाण्ड: उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः । अपि क्षेमं नु सीतायाः १ इति वै व्याजहार च ॥ २ ॥ त्वरमाणो जगामाथ सीतादर्शनलालसः । शून्यमावसथं दृष्ट्वा बभूवोद्विग्रमानसः || ३ || उद्धमन्निव वेगेन +विक्षिपन् रघुनन्दनः । ' तंत्र तत्रोटजस्थानं अभिवीक्ष्य समन्ततः ॥ ४ ॥ ददर्श पर्णशालां च रहितां सीतया तदा । श्रिया विरहितां ध्वस्तां 'हेमन्ते पद्मिनीमिव ।। ५ ।।

  • अधोवामलोचनं– वामलोचनस्याघः पक्ष्म । 'अघो वामदृश: स्फूतों बहुनिष्टो

भवेत् पुमान्' इति लक्षणम् । स्वयमस्खलत् - 'प्रयाणकाले स्खलनं करोतीष्टस्य भञ्जनम् '-गो. लोकद्वयमेकान्वयम् ॥ विक्षिपन्- इस्तादीनितस्ततः क्षिपन्- गो. - 1 व्रजमानस्य तस्याघोवामलोचनमस्फुरत् । प्रास्खलच्चासकृत्पादे वेपश्चास्य जायत--ङ. श्वास्य जायते-ज. 3 तत्र तत्र जनस्थानं-ड. 4 हिमान्ते-ङ.