पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

408 लक्ष्मणगणम् रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि । राघवस्थान्तरप्रेप्सुः * तथैनं नाभिपद्यमे ।। १९ ।। एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः । क्रोधात् प्रस्फुरमाणोष्ठः आश्रमादभिनिर्गतः ॥ २० ॥ एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः । अब्रवीत् दुष्कृतं, सौम्य ! तां विना यत् त्वमागतः ॥ २१॥ दुष्कृतमिति । अकृत्यमित्यर्थः । कृतमिति शेषः ॥ २१ ॥ [अरण्यकाण्ड: जाननपि समर्थ मां रक्षसां विनिवारणे । अनेन क्रोधवाक्येन मैथिल्या 'निःसृतो भवान् ॥ २२ ॥ कथमेवमित्यतः --जानन्नपीत्यादि ॥ २२ ॥ + न हि ते परितुष्यामि त्यक्ता यदसि मैथिलीम् । क्रुद्धायाः परुषं श्रुत्वा ' स्त्रियाश्च त्वमिहागतः ॥ २३ ॥ इहागतोऽसीति योजना ॥ २३ ॥ 21 सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः । क्रोधस्य वश'मापन्नः नाकरोः शासनं मम ।। २४ ।। Sअसौ हि राक्षसः शेते शरेणाभिहतो मया । मृगरूपेण येनाहं आश्रमादपवाहितः ।। २५ ।।

  • तथा – तेनैव प्रकारेण, तस्मादेव हेतोरिति यावत् । अत्रापि ४ श्लोकभावः

स्फुरति । अपनीतं अपनयः, भावप्रत्ययः । S अपनीतिमेवोपपादयितुं स्वरान्यथा- भावं दर्शयति–असावित्यादिश्लोकत्रयेण-गो. 1 गर्छितो-ड., निर्गतो-ज. 2 यथासिङ विहाय-ङ, विनिन्दन्ते ते, 3f स्वविनीतं ते ङ.. 5 वशमागम्य-ज.