पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

396 रामप्रत्यागमनम् [अरण्यकाण्ड: अपि स्वस्ति भवेत् *"ताभ्यां 'रहिताम्यां 'महावने । जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ॥ ९ ॥ निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च । इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ।। १० ।। आत्मनश्या' पनयनं मृगरूपेण रक्षसा आजगाम जनस्थानं राघवः परिशङ्कितः ॥ ११ ॥ तं 'दीनमानसं दीनं आसेदुः मृगपक्षिणः । सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ।। १२ ।। दीनमानसमिति । उपलक्षिताः इति शेषः ॥ १२ ॥ तानि निमित्तानि महाघोराणि राघवः । न्यवर्तताथ त्वरितः जवेनाश्रममात्मनः ॥ १३ ॥ स तु सीतां वरारोहां लक्ष्मणं च महाबलम् । आजगाम जनस्थानं चिन्तयन्नेव राघवः ।। १४ ।। जनस्थानमाजगामेति । जनस्थानदेशवर्ति स्वाश्रममित्यर्थः ।। ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् । || ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ॥ १५ ॥

  • ' न च सीता त्वया हीना न चाहमपि राघव ! मुहूर्तमपि जीवाव: जलान्मत्स्या-

बिवोद्धृतौ' (अयो. 53-31) इति लक्ष्मणस्वरूपज्ञः रामः स्वविपत्तिशङ्कया विमूढयो- रुभयोरपि विपत्ति शङ्कते। रक्षसा आत्मनश्चापनयनं चिन्तयन् तत एव परितः । + सव्यं कृत्वा - अप्रदक्षिणं कृत्वा - गो. 5 सीतां लक्ष्मणं च चिन्तयन् | ॥ गतौ त्वरां सूचयति ' अविदूरे' इति । द्वाभ्यां-ज. 5 दीनमनसः-ड.. 2 राक्षसानों ङ. दीनमनसं-- ज. 3 मया वने-ज. पनयनात्-ड..