पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्वा रामस्तु मारीचं शक्तिः सन् न्यवर्तत गोमायुर्वाश्यते यथेति । यथा स्पष्टा भवति अशुभाऽऽयतिः, तथा कोशतीत्यर्थः । तथाऽग्रेऽपि । वैदेयाः स्वस्तीति । बहुलं छन्दसि " इति षष्ठी। अपिः कामप्रवेदने ॥ ४ ॥ 66 चतुर्ध्यर्थे ५७ सर्ग:] मारीचेन तु * विज्ञाय स्वर मालम्ब्य मामकम् । विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ॥ ५ ॥ स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलीम् । तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥ ६ ॥ स्वरं श्रुत्वेति । मदीयत्व भ्रान्त्येति शेषः ।। ६ ।। राक्षसः + सहितैनूनं सीताया ईप्सितो वधः । काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥ ७ ॥ सहितैः ईप्सित इति । कर्तव्यमीप्सितः इत्यर्थः ॥ ७ ॥ 395

  1. दूरं नीत्वा तु मारीचः राक्षसोऽभ्रूच्छराहतः ।

हा लक्ष्मण ! हतोऽस्मीति यद्वाक्यं व्याजहार च ॥ ८ ॥ राक्षसोऽभूदिति । न तु चर्मप्रयोजनमृगोऽमूदित्यर्थः । इतोऽ- स्मीति व्याजहार यत्, तस्मात् क्षिप्रमेष्यतीति पूर्वेणान्वयः ॥ ८ ॥

  • मामकं स्वरं विज्ञाय तमालम्ब्य विक्रुष्ट स्वरं लक्ष्मणः शृणुयाचदि तदा स

सौमित्रिः तं स्वरं श्रुत्वा --लोकद्वयमेकं वाक्यम् । + एकपाचें मदपनयनं, वचनया लक्ष्मणस्थापनयनं, पार्थान्तरे सीतावधः इत्यादिकं संभूय मिलित्वा आलोच्य राक्षसेः वैरनियतन कृतमिति ' सहित: ' इत्यनेन उच्यते। कथमिदमवगम्यत इत्यत्रा --- दूरमित्यादि । यत्-यस्मात् दूरं नीत्वैव शराहतोऽभूत्, न तु समीप एव तस्यावकाशं दौ, यस्माञ्च हा लक्ष्मणेत्यादिकं व्याजहार च, अतः - राक्षसेः सहितैरेवेद कृतमित्यर्थ: । 1 माळक्ष्य-ज.