पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चैतत् कर्म सुखोदकं नाई च वशगा तब स हि * 'देवरसंयुक्तः मम भर्ता महाद्युतिः । निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके || १४ ।। देवरः- स्वदेवरः- र:- लक्ष्मण इत्यर्थः ॥ १४ ॥ + ५६ सर्ग:] स ते दर्प बलं वीर्य उत्सेकं च तथाविधम् । अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ॥ १५ ॥ यदा विनाशो भूतानां दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ।। १६ ।। कार्ये प्रमाद्यन्तीति। उचितकर्तव्यवैपरीत्यं प्राप्नुवन्तीत्यर्थः ॥ १६॥ ASOPIS 387 मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम ! आत्मनो राक्षसानां च वधायान्तिःपुरस्य च ।। १७ ।। सते काल इति । कालकतो विनाशकालः इत्यर्थः ॥ १७ ॥ न शक्या यज्ञमध्यस्था वेदि: सुग्भाण्डमण्डिता । द्विजातिमन्त्रपूता च चण्डालेना वमर्दितुम् ।। १८ ।।

  • दैवतसंयुक्त:- देवबलसंयुक्तः । दीन: तापसः रामः किं करिष्यतीति पूर्व

रावणेनोक्तस्योत्तरमिदम्-गो. स्वमरणेन वैधव्यमेव अन्तः पुरवध:- ति. स्त्रीवस्य रामेण असंभवात् एवं व्याख्यानम्। परन्तु 'राक्षसानां' इत्यत्र सवेराक्षसानां विवक्षा आवश्यकी । अवश्यं न भविष्यन्ति सबै रावण राक्षसाः' (48-22) इति च अत: विशिष्य प्रातिस्विकतया स्त्रीवघस्यासमवेऽपि, लङ्काराज्यस्यैव निर्देश: स्पष्ट: । निर्मूलने प्राप्ते तदन्तर्गतानां सर्वेषामपि नाशोऽवश्यंभाव्येव । अतः सामान्योक्तिरेवायम् । १ अन्तः पुरस्य च इति शिष्यकथनं तु वृद्धीच्छया मूलक्षय शव 'मयि स्त्रीलौस्यात् विद्यमानभोगस्यापि क्षयः सिद्ध: स्त्रीलोलस्य तव' इति प्रतिपादनाय || 1 देवत-ज. 2 भिमर्शितुम्- ङ. 25*