पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ सर्ग:]]
9
अथामन्त्र्य मुनीन् राम: प्रविवेश वनान्तरम्


 अन्ये सिद्धा इति । भरद्वाजादिवत् सङ्कल्पसिद्धा इत्यर्थः । न्यायवृत्ता:-न्यायः-धर्मः तदेकानुरुद्धं वृत्तं चरित्रं येषां ते तथा । यथान्यायं ईश्वरं तर्पयामासुरिति । ईश्वराईपदार्थोपस्थानेनेति शेषः । अराका (२२३) मानः सर्गः ॥ २२ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे प्रथम: सर्ग:




द्वितीयः सर्गः

[विराधनिरोधः]


[१] ।कृतातिथ्योऽथ रामस्तु [२] सूर्यस्योदयनं प्रति ।
आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ १ ॥

 अथ तद्रजन्यां तत्रोपविश्य प्रातः तत्रत्यमुनीन् आपृच्छय वनमवगाहमानस्य विराधसंसर्गः । कृतातिथ्य इत्यादि । सूर्यस्यो- दयनं प्रतीति । उदयकाले इत्यर्थः । 'लक्षणेत्थंभूताख्यान' इति प्रतेः कर्मप्रवचनीयत्वात् उदयनशब्दात् द्वितीया, 'कर्मप्रवचनीययुक्ते द्वितीया' इति । अथ वा 'कृत्यलुटो बहुलम्' इति ल्युडन्तत्वात् उदयनं - उदयं प्रति प्राप्येत्यर्थः ॥ १ ॥

नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ।
ध्वस्तवृक्षलतागुल्मं [३]दुर्दर्शसलिलाशयम् ॥ २ ॥
[४]निष्कृजनाना शकुनिझिल्लिका गणनादितम् ।
लक्ष्मणानुगतो रामः वनमध्यं ददर्श ह ॥ ३ ॥



  1. एवं ऋषिमि: प्रार्थितो राम: विराराभवधोपहारेण शरभनं द्रष्टुं प्रतस्थ इत्युच्यते
  2. उदयनं प्रति-उदयकाले- गो. ति. शि
  3. प्रसन्न झ.
  4. इदमपि विराधोपलवादेव। झिल्लिकास्तु पङ्खमजन्तवः |